SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २३५ सौधेयात्रैः गगनपरिषत्केतुमालाबलाकं रत्नोदप्रद्युतिविरचितेन्द्रायुधं प्रावृषेण्यं सजलकणिकासारं अभ्रवृन्दं धत्ते । सौधेयारित्यादि । या असौ अलकापुरी मुक्ताजालग्रथितं मुक्ता. विरचितानायसन्हब्धं । मुक्तानां मौक्तिकमणीनां जालेन आनायेन अथितं सन्दृब्धं । 'मुक्तो मोक्षगतेऽप्युक्तस्त्रिषु मुक्ता तु मौक्तिके' इति 'जालस्तु क्षारकानायगवाक्षे स्तम्भवृशयोः' इति च विश्वलोचने । 'ग्रथितं ग्रन्थितं दृब्धं ' इत्यमरः । अलकं चूर्णकुन्तलं । जातावेकवचनम् । 'कुबेरस्यालकपुर्यामलकचूर्णकुन्तले' इति विश्वलोचने । कामिनीव ललनेव । 'ललना कामिनी योषिद्योषां सीमन्तिनी वधूः' इति धनञ्जयः । स्वैः स्वकीयैः अभ्रंलिहैः अभ्रंकषैः। अभ्रं लेढीति अभ्रंलिट् । तैः। 'वहाभ्रे लिहः' इति खश खित्त्वान्मुमागमश्च । सौधेयाप्रैः प्रासादाग्रभागैः । प्रासादशिखरेरित्यर्थः । सौधानामिमानि सौधेयानि । सौधेयानि च तान्यग्राणि सौधेयाग्राणि । 'अग्रं त्रिषु प्रधाने स्यादग्रं मूर्धाधिकादिषु । पुरस्तात् पलमाने च बातेऽप्यालम्बनान्तयोः' इति विश्वलोचने । गगनपरिषत्केतुमालाबलाकं । गगने आकाशदेशे परितः सर्वतः सीदन्ति चलन्तीति गगनपरिषन्तः। ते च ते केतवः ध्वजाश्च । तेषां माला पङ्क्तिः एव बलाकाः पक्षिविशेषाः यस्य तत् । रत्नोद्ग्रद्युतिविरचितेन्द्रायुधं । उद्गतानि अग्राणि कोटयः यासां ताः उदग्राः । उदग्राश्च ताः द्युतयश्च उदग्रद्युतयः। रत्नानां उदग्रद्युतयः रत्नोदप्रद्युतयः। ताभिर्विरचितं इन्द्रायुधं इन्द्रधनुर्यस्मिस्तत् । प्रावृषेयं प्रावृट्कालभवं । 'प्रावृष एण्यः' इति भवार्थे एण्यः। सजलकणिकासारं । जलकणिकाः जलबिन्दवः। तेषां आसारः वर्षः जलकणिकासारः । तेन सहितं । 'वा नीचः' इति सहस्य सः ।। अभ्रवृन्दं मेघसमूह । 'जीमूतोऽभ्रं बलाहकः' इति धनञ्जयः । धत्ते धरति । That city bears a mass of clouds, discharging showers of drops of water, produced in the rainy season, possessing a rain-bow formed by the ends of the rays of jewels shooting upwards, having cranes in the form of the rows of flags moving in all directions in the sky, with the uppermost parts of her palaces scraping the clouds, like a noble woman [ free from pride, with her ] curly hair encircled with nets of pearls. यत्रानीलं हरिमणिमयाः क्षुद्रशैला नभोगं प्रोद्यदेवद्रुमपरिसरद्धपधूमानुबन्धाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy