SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २३४ [पार्श्वभ्युदये निर्वाणार्थमित्यादि । या अलकाभिधाना नगरी उच्चैर्विमाना उन्नतसप्तभूमिकप्रासादा । उच्चैः उन्नताः विमानाः सप्तभूमिकाः प्रासादाः यस्यां सा । 'विमानो व्योमयानेऽस्त्री सप्तभूमौ गृहेऽपि च ' इति विश्वलोचने । निर्वाणाथे मोक्षप्राप्त्यर्थम् । 'निर्वाण निवृतौ मोक्षे स्तम्भने गजमजने' इति विश्वलोचने । तितपसिषवः तपस्तप्तुमिच्छवः । 'तप सन्तापे' इत्यस्माद्धोः 'तुमीच्छायां धोर्वोप्' इति सनि तदन्तात् 'सन्भिक्षाशंसादुः' इत्युः । व्यर्थोद्योगाः विफलप्रयत्नाः । व्यर्थाः विफलाः उद्योगाः प्रयत्नाः येषां ते । अमी एते पादियो योगिनः । स्वयं आत्मना। ' स्वयमात्मना' इत्यमरः। आत्मानं क्लेशयन्ति आयासयन्ति । मयि अलकानगरीविषये तु पुनः वितृषः विगताभिलाषाः। विगता तृट् इच्छा येषां ते। 'इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' इत्यमरः। सन्तीति शेषः। किन्नु किन्विति प्रश्ने । 'किन्नु प्रश्ने वितर्के च' इति विश्वलोचने । तत् निर्वाणं मत्तः मत्सकाशात् अधिकं उत्कृष्टं । इति एवंविधात् आकूतात् अभिप्रायात् । वः अम्भोमुचा काले युष्माकं मेधानां काले । वर्षाकाले इत्यर्थः । इन्दुशुभ्रं चन्द्रवद्धवलं सलिलोद्गारं जलवर्षे । 'सामान्येनोपमानं ' इति सः । सलिलानां जलानां उद्गारः वर्षः । तम् । विहसितमिव उपहासमिव । 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । वहति धारयति । 'किं निर्वाणं मत्तोऽप्युत्कृष्टतरं यतोऽमी पादियो योगिनो मां विहाय तत्प्राप्त्यर्थ प्रयस्यन्ति ?' इत्यभिप्रायं मनसिकृत्य सा नगरीन्दुधवलसलिलासारमिषण तानुपहसन्तीव त्वदवलोकनविषयतां यास्यतीति शम्बरासुराभिप्रायः। That city, possessing seven-storied lofty mansions, would give an ironical smile, as white as the moon, in the form of the discharge of water in the days of you, the cloud (i. e. in the rainy season ), owing to her taking thought : ' These sages, exerting for nothing, desirous of practising penance for the attainment of salvation, are harassing themselves; they have no interest for me; is the abode of the liberated souls superior to me ?' सौधेयाग्रेर्गगनपरिषत्केतुमालाबलाकं रत्नोदग्रद्युतिविरचितेन्द्रायुधं प्रावृषेण्यम् । धत्ते याऽसौ सजलकणिकासारमभ्रंलिहैः स्वैः मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ।। ८४ ॥ अन्वय :- या असौ मुक्ताजालपथितं अलकं कामिनी इव स्वैः अभ्रंलिहैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy