SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २३१ of creepers meant for the heavenly damsels for coition, shaking off the sprouts, resembling thin silken garments, of the wishfulfilling tree by your breezes, pleasing and possessing various movements, should enjoy that lord of mountains. विद्युद्दाम्ना वलयिततनुस्तत्र वध्येव रूद्धो दीर्घ स्थित्वा सरति पवने मन्दमन्दं दिनान्ते । तस्मादवतर पुरीं स्वेष्टकामो धनीशां तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलाम् ॥ ८१ ॥ अन्ववः- विद्युद्दाम्ना वलयिततनुः वर्धय रुद्धः इव तत्र दीर्घे स्थित्वा दिनान्ते पवने मन्दमन्दं सरति तस्मात् अद्रेः प्रणयिनः इव तस्य उत्सङ्गे स्रस्तगङ्गादुकूलां धनीशां पुरीं स्वेष्टकामः अवतर । विद्युदित्यादि । विद्युद्दाम्ना विद्युल्लेखया । विद्युदेव दाम विद्युद्दाम । तेन विद्यु• द्दाम्ना । वलयितत्तनुः वलयीकृतशरीरः । आवेष्टितकायः इत्यर्थः । वलयिता विरचितवलया तनुः शरीरं यस्य सः । ' मृदो ध्वर्थे णिज्बहुलं ' इति णिच् । अत्र हेतौ वा, ' हेतौ सर्वाः प्रायः ' इति वचनात् । तेन वलयिततनुत्वादित्यर्थः । वर्धय चर्ममय्या रज्ज्वा । ' वर्धते दीर्घीभवति चर्मरज्जुत्वाद्वर्त्री ' इति क्षीरस्वामी । 'नद्धी वर्त्री वरत्रा स्यात् ' इत्यमरः । रुद्धः इव प्रतिबद्धः इव तन्त्र कैलासपर्वते दीर्घं सुचिरं स्थित्वा अवस्थानं विधाय दिनान्ते दिनावसानकाले । सायाह्ने इत्यर्थः । पवने समीरणे मन्दमन्दं मन्दप्रकारेण | मन्दतवेत्यर्थः । मन्दप्रकारः यथा स्यात्तथा मन्दमन्दम् । 'प्रकारे गुणोक्व' इति प्रकारेऽर्थे द्विरुक्तिः । सरति प्रवहति सति । 'यद्भावाद्भावगतिः ' इति ईप् । तस्मात् कैलासात् अद्रेः पर्वतात् प्रणयिन इव प्रियतमस्येव । प्रियतमस्योत्सङ्गेऽङ्के इव तस्य कैलासस्य उत्सङ्गे ऊर्ध्वतले । ' उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वतलेsपि च ' इति मालतीमालायाम् । स्रस्तगङ्गादुकूलां विगलितगङ्गारूपशुभ्रवस्त्रां । स्रस्तं विगलितं शरीरान्निःसृत्य पृथग्भूतं गङ्गा एवं दुकूलं शुभ्रवस्त्रं यस्याः सा । ताम् । अत्र गङ्गाजलस्य शुभ्रवर्णत्वात्तस्यां दुकूलत्वमारोपितमित्यवसेयम् । पक्षे स्रस्तं गङ्गेव गङ्गातुख्यं दुकूलं यस्याः सा । ताम् । ' दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके इति शब्दार्णवे । स्वप्रियतमाङ्कदेशविगलितसितांशुकायाः स्त्रियः उपमानत्वं स्वप्रियतमकैलासाचलोर्ध्वतलगतगङ्गा रूपशुभ्रांशुकायाः अलकापुर्याश्चोपमेयत्वमित्यवसेयं । स्वप्रियतमकैलासाचलोत्सङ्गप्रदेशविगलितगङ्गारूपसितांशुकामलकापुरीमित्यर्थः । गङ्गा दुकूलं 7 C Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy