SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २३२ [पार्धाभ्युदये शुभ्रवस्त्रमिवेत्युपमितसमासः । ...। अन्यत्र तु गङ्गैव दुकूलम्' इति मल्लिनाथवचनं चिन्न्यं, अर्थवैपरीत्यप्रसङ्गात् । अलकापुरीपक्षे उपमितसमासग्रहणे दुकूलोपमानगङ्गायाः एव स्वप्रियतमोत्सङ्गप्रदेशविगलनापत्तिर्न गङ्गारूपांशुकस्य, गंगाया एव प्राधान्यात् । अस्मिन्वक्षे 'गङ्गैव दुकूलं' इतिविग्रहवचनोक्तार्थग्रहणमेव युक्तरूपं, आरोप्यारोपविषययोस्तादात्म्याध्यासादारोपविषयस्यानिह्नवात् । अन्यत्र स्त्रीविषये तु 'गङ्गैव दुक्लं' इतिविग्रहवचनप्रतिपादितार्थग्रहणमध्ययुक्तं, गङ्गायाः स्त्रीवसनत्वासम्भवात् । अतोऽत्र पक्षे 'गङ्गव दुकूलं' इति विग्रहः एव समीचीनः । गङ्गेव गङ्गा । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । 'युक्तवदुसि लिङ्गसङ्ख्ये' इति लुप्तेवार्थककस्य गङ्गाशब्दस्य स्त्रीलिङ्गत्वम् । धनीशां यक्षेश्वराणां । महतां यक्षाणामित्यर्थः । धनिनां यक्षाणां ईशते इति धनीशः । किम् । तेषाम् । यद्वा धनी कुबेरः ईट् येषां ते धनीशः। तेषाम् । पुरी अलकाभिधाननगरी। स्वेष्टकामः स्वाभिलषितमाप्तुकामः स्वस्य आत्मनः इष्ट आशंसित स्वेष्टं । ' इष्टो ना यागसंस्कारयोगयोः ऋतुकर्मणि । क्लीबं त्रिषु प्रियतमे पूज्येऽप्याशंसितेऽपि च' इति विश्वलोचने । स्वेष्टं कायमते इति स्वेष्टकामः । 'शीली. शिक्षम्काम्याचरभक्षणः' इति कर्मणि वाचि णः । यद्वा स्वेष्टे स्वाभिलषिते स्वप्रिये वा कामः अभिलाषः यस्य सः इति घजन्तेन बसः । अवतर नीचर्गच्छ। You, as if tied down by leathern straps owing to your body being encircled with the rope-like lightning, having stayed there on the Kailasa mountain ) for a long time, should go down from that mountain, with a desire to secure what is expected by you, upon that city (of Alaka ), the abode of the best of the Yaksas, with its white garment in the form of the Ganges fallen off on its slopes, as on a lover's lap, when the breezes of wind would be blowing slowly in the evening. दृष्टाध्यात्मस्थितिरधिगताशेषवेद्यः सविद्यः . योगाभ्यासाद्भुवनमखिलं सश्चरन्दूरदर्शी । लक्ष्म्या सूर्ति भुवनविदितां तां पुरीं तत्र साक्षा न्न त्वं दृष्ट्वा न पुनरलका ज्ञास्यसे कामचारिन् ।। ८२ ॥ अन्वयः-कामचारिन् । योगाभ्यासात् दृष्टाध्यात्मस्थितिः अधिगताशेषवेद्यः सविद्यः अखिल भुवनं सञ्चरन् दूरदर्शी तत्र लक्ष्म्याः सूति भुवनविदितां अलकां पुरी त्वं पुनः साक्षात् न दृष्ट्वा तां न ज्ञास्यसे। Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy