SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २३० [पार्धाभ्युदये ( lake ), conferring the pleasure of possessing a face-cloth for a moment on Airavata, should divert yourzelf again on the mountain. क्रीडाद्रीणां कनकशिखराण्यावसंस्तत्र पश्यन् स्वर्गस्त्रीणां निधुवनलतागेहसम्भोगदेशान् । धुन्वन्कल्पद्रुमकिसलयान्यंशुकानि स्ववातैः नानाचष्टर्जलद ललितनिर्विशेस्तं नगेन्द्रम् ॥ ८०॥ अन्वयः--- जलद | क्रीडाद्रीणां कनकशिखराणि आवसन्, तत्र स्वर्गस्त्रीणां निधुवनलतागेहसम्भोगदेशान् पश्यन्, नानाचेष्टेः ललितैः अंशुकानि कल्पद्रुमकिसलयानि धुन्वन् तं नगेन्द्र निर्विशेः। ___क्रीडाद्रीणामित्यादि । जलद हे मेघ ! क्रीडाद्रीणां क्रीडाशैलानां कनकशिखराणि सुवर्णसानूनि आवसन् आरूढवान् । ' वसोनूपाध्याः ' इत्याधारे इप् । तत्र कैलासाचले स्वर्गस्त्रीणां त्रिदशयोषितां निधुवनलतागेहसम्भोगदेशान् निधुवनार्थानि लतागेहानि वल्लरीनिर्मितभवनानि निधुवनलतागेहानि । तेषु ये सम्भोगदेशाः सम्भोगार्थ विरचितानि स्थानानि । तान् । पश्यन् अवलोकयन् । नानाचेष्टैः. बहुविधक्रीडैः। नाना बहुविधाः चेष्टाः दिग्विदिक्षु वहनादिरूपाः क्रीडाः येषां तैः। ललितैः शरीरप्रियः। 'ललितं हावभेदे स्यात्रिम्वेव ललितेष्टयोः' इति विश्वलोचने । स्ववातैः स्वीयैः समीरणैः। स्वाः स्वीयाः वाताः समीरणाः स्ववाताः। तैः । 'स्वो ज्ञातावात्मनि स्वं तु त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति विश्वलोचने । अत्र वातस्य स्वीयत्वं स्वागमनकालजनितत्वादित्यवसेयम् । अंशुकानि सूक्ष्मवस्त्रतुल्यानि । अंशुकानीवांशुकानि । ' देवपथादिभ्यः' इतीवार्थस्य कस्योस् । ‘युक्तवदुसि लिङ्गसङ्ख्ये' इति कृतेवार्थककोसोंऽशुकशब्दस्य प्रकृतिवल्लिङ्गसङ्ख्ये । 'अंशुकं वस्त्रमात्र स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नातिदीप्तौ' इति शब्दार्णवे । कल्पद्रुमकिसलयानि कल्पवृक्षपल्लवान् । कल्पद्रुमाणां कल्पवृक्षाणां किसलयानि पल्लवाः। तानि । इबहुवचनम् । धुन्वन् कम्पयन् । विधूनयन्नित्यर्थः। तं प्रसिद्ध नगेन्द्र नगाधिराजं निर्विशे: समुपभुक्ष्व । यद्वा नानाचेष्टेः ललितैः क्रीडितः। 'ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवे' इति शब्दार्णवे । तं नगेन्द्र निर्विशेः । ____o cloud ! you, dwelling on the golden peaks of the pleasure-mountains, beholding, there, the seats of cohabitation existing in the bowers Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy