________________
द्वितीयः सर्गः]
२२९ कृच्छ्रान्मुक्तो विविधकरणैस्तत्र रत्वाऽथ ताभि
भूयः शैले विहर गमितो वायुनाऽऽप्तवणाङ्गम् । हेमाम्भोजप्रसवि सलिलं मानसस्याऽऽददानः
कुर्वन्कामं क्षणमुखपटप्रीतिमैरावणस्य ॥ ७९ ॥
अन्वयः- अथ तत्र ताभिः विविधिकरणैः रत्वा कृच्छ्रात् मुक्तः वायुना आप्तत्रणाङ्ग गमितः, मानसस्य हेमाम्भोजप्रसवि सलिलं आददानः, ऐरावणस्य क्षणमुखपटप्रीतिं काम कुर्वन् शैले भूयः विहर। ..
कृच्छादित्यादि । अथ अनन्तरं तत्र कैलासाचले ताभिः त्रिदशयोषाभिः विविधकरणैः नानाविधाङ्गहारैः नानाविधसंवेशक्रियाभेदैः वा। 'करणं साधकतमे कार्यकायस्थकर्मसु । क्रियायामिन्द्रिये क्षेत्रे करणं बालवादिषु । गीताङ्गहारसंवेशक्रियाभेदेऽपि चेप्यते' इति विश्वलोचने। रन्त्वा क्रीडित्वा कृछात् कष्टात् । 'स्तोकाल्पकृच्छ्रकतिपयात्करणे का वाऽसत्त्वे' इति का । मुक्तः परिहृतप्रतिबन्धः । वायुना समीरणेन भाप्तवणाग प्राप्तवणशरीरं । आप्तः व्रणः येन तत् । आप्तस्रणं च तदङ्गं शरीरं च भाप्तत्रणाङ्ग । तत् । इप् । 'अनमन्तिके। गात्रोपायाप्रधानेषु प्रतीकेऽप्यङ्गवत्यपि' 'इति विश्वलोचने । गमितः प्रापितः मानसस्य मानसाख्यसरसः हेमाम्भोजप्रसवि। हेमाम्भोजानि सुवर्णकमलानि प्रसूते इति हेमाम्भोजप्रसवि। 'प्रे सूजोरिन् ' इति शीलार्थे इन् । सलिलं जलं आददानः स्वीकुर्वन् । आगृह्णनित्यर्थः । ऐरावणस्य अभ्रमुवल्लभस्य । 'ऐरावतोऽभ्रमातहैरावणाभ्रमुवल्लभाः' इत्यमरः। ऐरावताख्यस्येन्द्रगजस्येत्यर्थः । क्षणमुखपटप्रीतिं । क्षणं क्षणमात्रकालं यावत् मुखपटेन मुखावरणवस्त्रेण प्रीतिरिव प्रीतिः । ताम् । मुखपटनिबन्धना मुखपटजनिता वा या प्रीतिः तत्सदृशी प्रीतिमित्यर्थः । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । ‘युक्तवदुसि लिङ्गसङ्ख्ये' इति उपमानभूतयुक्तवालिङ्गसङ्ख्ये। गजेन्द्रमुखाग्रभागे क्षणस्थित्या मुखपटजनितानन्दतुल्यं सुखं जनय, तादृशमुखाग्रभागे स्थिते सति ऐरावणस्य मुखपटभ्रान्तिजनितानन्दसम्भवादिति भावः। कामं अत्यर्थं कुर्वन् जनयन् शैले कैलासाचले भूयः पुनः विहर सञ्चर ।
Afterwards, having carried out various performances, there, with them, you, having release from them with a great difficulty, reduced by the wind to the state of your body having wounds inflicted, imbibing the water, generating (producing) golden lotuses, of the Manasa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org