SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २२३ C , ८ इति विश्वलोचने । स्निग्धं च तद्भिन्नं च स्निग्धभिन्नं । अञ्जनं कज्जलं । स्निग्धभिन्नं च तदञ्जनं च स्निग्धभिन्नाञ्जनं । तस्य आभेव कान्तिरिव आभा यस्य सः । तस्मिन् । ईबुपमानपूर्वस्य द्युखं गतार्थत्वात् ' इति द्युखम् | त्वयि भवति मेघे तटगते हिमाचलनितम्बदेशं प्राप्ते सति । तटो नितम्बदेशः । गिरिकटकमित्यर्थः । वटतरुमतः न्यग्रोधपादपवतः न्यग्रोधपादपशोभिनो वा । वटतरुर्न्यग्रोधपादपोऽस्मिन्नस्तीति प्रशस्तः वटतरुरस्मिन्नस्तीति वा वटतरुमान् । तस्य । ' तदस्यास्त्यस्मिन्निति मतुः ' इत्यस्तिविवक्षायां प्रशंसायां वा मतुः । उक्तं च भूमनिन्दाप्रशंसासु नित्य योगेऽतिशायने । संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मताः ' इति । मण्डलभ्राजितस्य परिरधिगतभूप्रदेशेन भ्राजितस्य राजितस्य । भ्राजमानस्येत्यर्थः । पक्षे मण्डलेन प्रभामण्डलेन भ्राजि - तस्यैत्यर्थः । ' मण्डलं निकुरुम्बेपि देशे द्वादशराजके । कुष्ठाहिभेदे परिधौ चक्रवाले च मण्डलम् । मण्डलं स्यान्मण्डल के सारमेये तु मण्डल: ' इति विश्वलोचने । सद्यः कृत्तद्विरदरदनच्छेदगौरस्य । द्वो रदौ बहिर्निर्गतौ दन्तौ यस्य सः द्विरदः । गजः इत्यर्थः । द्विरदस्य रदनः दन्तः द्विरदरदनः । सद्यः कृत्तः प्रत्यग्रखण्डितश्वासौ द्विरदरदनश्च सद्यःकृत्तद्विरदरदनः । तस्य च्छेदः खण्डः इव गौरः शुभ्रवर्णः । तस्य । ' सामान्येनोपमानं ' इति सः । प्रत्यग्रखण्डितगजदन्तभङ्गवच्छुभ्रवर्णस्येत्यर्थः । प्रसितुमनसा । ग्रसितुं कवलीकर्तु मनः यस्य सः । तस्य सम्मोन : कामे ' इति मनसि परतस्तुमो मकारस्य खम् | राहुणा स्वर्भानुना आश्रितस्य कृताश्रयस्य । सञ्जातसंयोगस्येत्यर्थः । प्रालेयांशोः हिमांशोः । चन्द्रमसः इत्यर्थः । इव वा । चन्द्रमस्तुल्यस्येत्यर्थः । तस्य अद्रेः तस्य हिमाचलस्य शोभां सौन्दर्ये उत्पश्यामि शोभा भविष्यतीति तर्कयामीति भावः । " I believe that the mountain, white like a piece of a tusk of an elephant cut off very recently, looking beautiful on account of the surrounding regions (in the case of the moon-pleasing to the eyes owing to her halo ), possessing banian trees, would be assuming beauty like that of the moon, resorted to by Rahu desirous of eclipsing, when you, possessing colour like that collyrium mixed with oil and wellcrushed, would be resorting to its slopes. त्वय्यारूढे शिखरमभितोऽधित्यकां तस्य मन्ये पार्श्वग्रे वा पुनरपि दशास्यावतारप्रपञ्चम् । लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री Jain Education International सन्यस्ते सति हलमृतो मेचके वाससीव ॥ ७४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy