SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २२१ [पार्धाभ्युदये __ अन्वयः- तस्य शिखरं अभितः अधित्यकां त्वयि आरूढे [ सति ] दशास्यावतारप्रपञ्चं मन्ये । पुनः अपि पार्खाग्रे वा [ त्वयि आरूढे ] मेचके वाससि अंसन्यस्ते सति हलभृतः इव स्तिमितनयनप्रेक्षणीयां अद्रेः लीलां भवित्री [ मन्ये ] . त्वयीत्यादि । तस्य । कैलासस्य शिखरं प्रस्थप्रदेशं अभितः सर्वतः । 'पर्यभेः साभये' इति सर्वार्थेऽभेस्तसेस्तस् । 'पर्यभिसर्वोभयस्तस्त्यैः' इत्यभिना तस्त्यान्तेन योगे इब् । अधित्यकां भूधरोवंभुवं । ' उपत्यकाधित्यके' इति पर्वताध्यारूढप्रदेशार्थे निपातः । ' उपत्यकानेरासन्ना भूमिरूवमधित्यका' इत्यमरः । त्वयि भवति । आरूढे ऊध्र्वभूमिं प्राप्ते सति दशास्यावतारप्रपश्चं दशाननाकाराविर्भावनं । दश दशसङ्ख्याकानि आस्यान्याननानि यस्य सः दशास्यः । दशाननः रावणः इत्यर्थः । तस्यावतारो देहाकृतिः। तस्य प्रपञ्चः आविर्भावः । तम् । मन्ये जानामि । पुनः अपि पाने वा पाश्र्वोपरिभागे वा। त्वय्यारूढे सतीति शेषः । मेचके कृष्णवर्णे । 'मेचकः श्यामले बर्हिचन्द्रे ध्वान्तेऽथ मेचकं । वाच्यवत्कृष्णवर्णे स्यात् ' इति विश्वलोचने । वाससि वस्त्रे अंसन्यस्ते भुजशिरसि न्यस्ते । अंसे भुजशिरसि न्यस्तं स्थापितं अंसन्यस्तं । तस्मिन् । 'स्कन्धो भुजशिरोऽसोऽस्त्री' इत्यमरः । सति। अस्तीति सन् । तस्मिन् । 'यद्भावाद्भावगतिः' इति ईप् । हलभृतः बलरामस्य । हलं लाइालं बिभर्तीति हलभृत् । किम् । 'नीलाम्बरो रोहिणेयस्तालाको मुसली हली । सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः' इत्यमरः । स्तिमितनयनप्रेक्षणीयां निर्निमेषनयनावलोकनीयां । स्तिमिताभ्यां स्तब्धता प्राप्ताभ्यां नयनाभ्यां नेत्राभ्यां प्रेक्षणीयाऽवलोकनाही। ताम् । 'तृव्याश्चाहें' इत्यार्थे व्यः अद्रेः कैलासपर्वतस्य लीलां शोभा भवित्री भविष्यन्तीं। मन्ये इति शेषः । कैलासाचलस्य तादृशी शोभा भविष्यतीति तर्कयामीति शम्बरासुराभिप्रायः । I believe that there would be a display of the incarnation of the ten-mouthed one [ i. e, Ravana ] when you would have ascended the plateau round about the peak of the mountain and that the beauty, worthy of being looked at with steady eyes, of that mountain would be like that of the Plough-bearer [i. e. Balaram ] with his dark garment placed on his shoulder when you would have ascended the uppermost part of its side. तस्मिन्हित्वा भुजगवलयं शम्भुना दत्तहस्ता सम्प्राप्याच्चैर्विरचित इवानीलरत्नस्त्वयीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy