________________
द्वितीयः सर्गः ]
२२१
<
राशिः धूमप्रचयः। निःसृत्य बहिर्निर्गत्य ऊर्ध्वं च गत्वा व्योममार्गप्रदेशे च सङ्क्रम्य क्षीरात् पयसोऽपि अच्छच्छावभिः स्फटिकतुल्य निर्मलकान्तिभिः । अच्छस्य स्फटिकस्य च्छविरिव च्छविः कान्तिः यस्य सः । ' ईबुपमानपूर्वस्य सुखं गतार्थत्वात् ' इति द्युखम्।' अच्छाव्ययमाभिमुख्ये अच्छस्फटिकयोः पुमान् । अच्छः स्वच्छेऽन्यलिङ्गः स्यात्' इति विश्वलोचने । अभितः परितः । सर्वतः इत्यर्थः । प्रोश्चलनिर्झरौघैः प्रवहत्सफेनपाथः प्रवाहः । निर्झराः सफेनाश्च ते ओघाः पाथसां प्रवाहाः निर्झरौघाः । सूर्याश्व फेनकर्पासतुषवह्निषु निर्झरः ' इति 'ओघः परम्परायां स्याद्भुतनृत्योपदेशयोः । ओघः पाथःप्रवाहे च समूहे च पुमानयम्' इति च विश्वलोचने । निर्झरा फेनाः सन्त्यस्येति निर्झरः । ' ओऽभ्रादिभ्यः ' इति मत्वर्थेऽत्यः । प्रोच्चलन्तः प्रवहन्तश्च ते निर्झरौघाश्च प्रोच्चलन्निर्झरौघाः । तैः । कुमुदविशदैः । कुमुदानि सितकमलानीव विशदेः शुभ्रच्छायैः 'सिते कुमुदकैरवे' इत्यमरः । 'विशदः पाण्डुरे व्यक्ते' इति विश्वलोचने । 'सामान्येनोपमानं ' इति षसः। श्रृंगोच्छ्रायैः शिखरोत्सेधैः । शृङ्गाणां शिखराणां उच्छ्रायाः उत्सेधाः । तैः । 'नगाद्यारोह उछ्रायः उत्सेधश्वोच्छ्रयश्च सः ' इत्यमरः । प्रतिकृतिगतस्य प्रतिबिम्बात्मकस्य आदिभर्तुः भगवतः आदिजिनेश्वरस्य पुरस्तात् अग्रतः । अग्रभागे इत्यर्थः । प्रतिदिनं प्रत्यहं । दिने दिने प्रतिदिनं । नृत्तारम्भे नर्तनप्रारम्भकाले । ' लास्यं नृत्तं च नर्तने ' इत्यमरः । राशीभूतः पुञ्जीभूतः । अराशिः राशिः भवति स्म राशीभूतः । त्र्यम्बकस्य ईशानादगिन्द्रस्य रुद्रस्य वा । त्रीणि अम्बकानि यस्य सः त्र्यम्बकः । तस्य । अट्टहासः मद्दत्तरो ह्रासः । ' अट्टावतिशयक्षौमौ ' इति यादवः । ' अट्टाहासो महत्तरे ' इति विदग्धचूडामणौ । इव वा खं आकाशं वितत्य व्याप्य स्थितः तिष्ठन् । तस्य दशमुखभुजोच्वासितप्रस्थसन्धेः । दश दशसङ्ख्याकानि मुखानि आननानि यस्य सः दशमुखः । रावणः इत्यर्थः । तस्य भुजाः बाहवः । ते इव उच्छासिताः उर्ध्वं प्रापिताः प्रस्थसन्धयः शिखरभागाः यस्य सः । तस्य । ' कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ' इत्यमरः । ' सन्धिः पुंसि सुरङ्गायां रन्ध्रसङ्घट्टने भगे । सन्धिभांगेऽवकाशेऽपि वाटसज्ञेऽपि पुंस्ययम् ' इति विश्वलोचने । शुभ्रादुभ्रस्फटिकघटनाशोभिगण्डोपलस्य । शुभ्राः शुक्लवर्णाश्च ते अदभ्राः स्थूलाश्च शुभ्रादभ्राः । 'अदभ्रं भूरि भूयिष्ठम्' इति धनञ्जयः । शुभ्रादभ्राश्च ते स्फटिकाश्च शुभ्रादभ्रस्फटिकाः । तेषां घटना अनुवेधः । तया शोभन्ते इति शोभिनः शोभमानाः इत्यर्थः । ' शीलेऽजातौ णिन्' इति शीलार्थे णिन् । शुभ्रादभ्रस्फटिकघटनाशोभिनः गण्डोपलाः स्थूलोपलाःयस्य सः। तस्य । गण्डाः वराः । स्थूलाः इत्यर्थः । ' गण्डस्तु पिटके योगभेदेखङ्गिकपो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org