SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २२० { पार्धाभ्युदये क्रौञ्चाभिधानभूधरस्य गवरात् विवरात् । 'दरी तु कन्दरो वा स्त्री देवखातविले गुहा । गड्वरं ' इत्यमरः । आशु शीघ्रं निष्पत निर्गच्छ । वैरनिर्यातनाभिप्रायेण जिनमुनिशतसप्तकमनिमुखे प्रक्षेप्तुकामस्य बलिनामविप्रस्य प्रमर्दनाथै धृतवामनाकृति नर्द्धिभाजा विष्णुकुमाराभिधेन मुनीश्वरेण पादद्वियतेन पूर्वापरतोयनिधिमध्यस्थभरत. भूमण्डलभुवमाभिव्याप्य तृतीयः पादः उन्नामितः आसीदिति पौराणिकी कथा । You, who have renounced all the worldly attachments, appearing beautiful owing to your horizontal length, should, on account of your having determined to go to the Himalayas, the abode of many wonders, proceed through the Kraunca defile to the northern direction. Like a big black serpent ( coming out of a hole ), you, resembling the black foot of the sage Visnukumar raised high up for the pounding down of Bali, should immediately rush out of the defile of that mountain. तस्माद्धमप्रचय इव निःसृत्य शैलस्य रन्ध्राद् गत्वा चोवं दशमुखभुजोच्छासितप्रस्थसन्धेः । शुभ्रादभ्रस्फटिकघटनाशोभिगण्डोपलस्य कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः॥७१॥ . क्षीरादच्छच्छविभिरभितः प्रोच्चलनिर्झरौघैः ___ शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खम् । नृत्तारम्भे प्रतिकृतिगतस्यादिभर्तुः पुरस्ताद -- ___ राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ७२ ॥ अन्वय :- शैलस्य तस्मात् रन्ध्रात् धूमप्रचय इव निःसुत्य ऊर्ध्व च गत्वा क्षीरात् अच्छच्छविभिः अभितः प्रोच्चलन्निर्झरौघैः कुमुदविशदैः शृङ्गोन्ड्रायैः प्रतिकृतिगतस्य आदिभर्तुः पुरस्तात् प्रतिदिनं नृत्तारम्भे राशीभूतः त्र्यम्बकस्य अट्टाहासः इव खं वितत्य यः स्थितः तस्य दशमुखभुजोच्छासितप्रस्थसन्धेः शुभ्रादभ्रस्फटिकघटनाशोभिगण्डोपलस्य त्रिदशवनितादर्पणस्य कैलासस्य अतिथिः स्याः। . तस्मादित्यादि । शैलस्य क्रौञ्चसमाख्यातभूधरस्य तस्मात् प्राक्तनश्लोकोपवर्णितात् प्रसिद्धाद्वा रन्ध्रात् विवरात् । चक्रवर्तिदण्डरत्नविदारितवैजयाधगुहाद्वारसधर्मणः क्रोश्चाख्यगिरिगह्वरादित्यर्थः । धूमप्रचयः इव धूमराशिरिव । धूमस्य प्रचयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy