________________
द्वितीयः सर्गः ]
२१९
असमञ्जसत्वा तदर्थग्रहणेऽस्माकं बुद्धिमान्द्यात्सामर्थ्याभावाद्वा । 'वै जयार्थे ' इति पाठस्तु यथाकथञ्चिद्ग्राह्यः । गुहाद्वारकं इव अज्ञातं गुहाद्वारं । ' कुत्सिताज्ञातापे' इति कजज्ञातार्थे । ऐदंयुगीनजननां तद्दर्शनसामर्थ्याभावात्तस्याज्ञातत्वमिति भावः । कन्दरद्वारमिवेत्यर्थः । प्रतीयाः जानीहि ।
Having passed over all the beautiful scences of the regions adjoining to the Himalaya mountain, you should take the Kraunca defile which is in the proximity of it, which is conjectured as the gate for the swans and as the path of the glory of Parasurama in the works of the learned, ignorant of the facts, for the door, carved into the rock of the cave of the Vijayardha mountain by means of the sceptre (of a Cakravartin ).
बह्वाश्वर्ये हिमवति कृतालोकनत्वादसङ्गः तेनोदीचीं दिशमनुसरेस्तिर्यगाया मशोभी । कृष्णः सर्पो गुरुवि गिरेर्गह्वरानिष्पताशु
श्यामः पादो बलिनियमनेऽभ्युद्यतस्येव विष्णोः ॥ ७० ॥
अन्वय
बह्नाश्चर्ये हिमवति कृताला कनत्वात् असङ्गः तिर्यगायामशोभी [ त्वं ] तेन उदीचीं दिशं अनुसरे: । गुरुः कृष्णः सर्प इव [ गह्वरात् ] बलिनियमने अभ्युद्यतस्य विष्णोः श्यामः पादः इव गिरेः गह्वरात् आशु निष्पत !
Jain Education International
बध्वित्यादि बह्वाश्वर्ये बहुविस्मयावह दृश्यसम्पन्ने । बहूनि आश्चर्याणि विस्मयावहानि दृश्यानि यस्मिन् । तस्मिन् हिमवति हिमालयाभिधाने नगाधिराजे । ' हेतौ सर्वाः प्रायः' इति तावीप् । हिमालयं प्राप्तुमित्यर्थः । कृतालोकनत्वात् कृतविमर्शत्वात् कृतावधारणत्वाद्वा। कृतनिश्चयत्वादित्यर्थः । असङ्गः परित्यक्तवाह्याभ्यन्तरपरिग्रहः। तिर्यगायामशोभी तिरश्रीनदेर्येण शोभमानः । तिर्यक् तिरश्चीनश्वासावावामो दैर्ध्य च तिर्यगायामः । तेन शोभते इति तिर्यगायामशोभी । ' शीलेऽजातौ णिन् ' इति शीलार्थे णिन् । त्वं तेन क्रौञ्चाख्यगिरिक्विरमार्गेण उदीचीं दिशं उत्तरदिशं अनुसरे: अनुगच्छ । गुरुः महाकायः कृष्णः सर्पः इव कृष्णवर्णोरगः इव । कृष्णकायमहोरग इवेत्यर्थः । गह्वरात् बिलादिति शेषः । बलिनियमने बलिमर्दने । बलिमर्दनकाले - बलिमर्दनार्थ वेत्यर्थः । अभ्युद्यतस्य कृतोन्नामस्य विष्णोः भगवतः प्राप्तर्द्धिकस्य विष्णुकुमाराभिधानमुनिराजस्य श्यामः कृष्णवर्णः पादः इव चरणः इव गिरेः
For Private & Personal Use Only
www.jainelibrary.org