________________
२१८
[ पार्श्वाभ्युदये
प्रायादेरुपतटमतिक्रम्य तांस्तान्विशेषान् तस्याsदूरे कुकविताकल्पितं तत्प्रतीयाः । हंस द्वारं भृगुपतियशोवर्त्म यत् कौश्वरन्ध्र दण्डेनाssवष्कृतमिव गुहाद्वारकं वैजयार्धम् ॥ ६९॥
अन्वय --- प्रालेयाद्रेः उपतरं तान् तान् विशेषान् अतिक्रम्य तस्य अदूरे कुकविकविताकल्पितं हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्धं तत् दण्डेन आविष्कृतं वैजया गुहाद्वारकं इव प्रतीयाः ।
Jain Education International
,
: प्रालेयेत्यादि । प्रालेयाद्रेः हिमालयाभिधानधराधरस्य उपतढं तटसमीपप्रदेशे । ' झिः सुब्' इत्यादिना समीपार्थे हसः । तांस्तान् सर्वान् । वीप्सायां द्विः । विशेषान् द्रष्टव्यार्थान् । 'विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि ' इति शब्दार्णवे । अतिक्रम्य दशैं दर्शमुल्लङ्घ्य तस्य हिमवदचलस्य अदूरे प्रान्तप्रदेशे कुकवि कविताकल्पितं । कवयः विद्वांसः, न काव्यकरः एव । 'कविः शुक्रेऽपि वाल्मीके सूरौ काव्यकरे पुमान्' इति विश्वलो - चने । 'पण्डितः सूरिराचार्यः' इति धनञ्जयवचनात् ' धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो "विचक्षणः' इत्यमरवचनाश्च पण्डितार्थाभिधेयः सूरिशब्दः । अतः कविशब्दोऽपि विद्वद-र्थवचनः । कुत्सितः कविः कुकविः । अल्पज्ञाननिबन्धना अज्ञानानिबन्धना वा कुत्सेत्यवसेयं सुधीभिः । नैव सा परमतनिन्दानिबन्धना । अज्ञानदोषाश्रयः कविः कुकविरित्यर्थीत्राभिमतः । कवैर्विदुषः कर्म कविता | विद्वद्विरचितो ग्रन्थ इत्यर्थः । कुकवेः कविता कुकविता । तस्यां ताभिर्वा कल्पितं कल्पनामात्रेण जल्पितम् । न परमार्थसदिति भावः । जिनागमानभिज्ञविद्वजन कल्पना शिल्पिजल्पितमित्यर्थः । हंस द्वारं हसानां मानससरः प्रस्थायिनां द्वारं गमनमार्गः भृगुपतियशोवर्त्म जामदग्न्ययशःप्रवृत्तिकारणं । भृगूणां भृगुकुलोत्पन्नानां पतिः श्रेष्ठः इति, भृगुः शिवः पतिः ईश्वरः यस्य सः इति वा भृगुपतिः । जामदग्न्यः इत्यर्थः । ' भृगुः शुक्रे प्रपाते च जमदग्नौ प्रपातिनि ' इति विश्वलोचने । ' इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरिशिता' इत्यमरः । भृगुपतेः भृग्वीशितुः यशः कीर्तिः भृगुपतियशः । तस्य वर्त्म प्रसरणमार्गः । यत् क्रौञ्चरन्ध्रं क्रौञ्चस्य हिमालयस्य दक्षिणदिशि वर्तमानस्य कस्यचित्पर्वतविशेषस्य रन्ध्रं विवरं तत् दण्डेन षट्खण्डभरतभूमण्डलजिगीषया विजयार्धेत्तिरदिग्वर्तिखण्ड त्रय जिगमिषया विजयार्धधराधरकन्दरस्थ पिहितद्वारं विभित्सुना चक्रवर्तिना प्रयुक्तेन स्वकीयदण्डरत्नेन आविष्कृतं उद्घाटितं वैजयार्थ विजयार्धभूधराङ्गभूतं । विजयार्धस्येदं वैजयार्थे । वैजयार्थमिति पाठस्तु नास्माभिरूरीकृतः,
For Private & Personal Use Only
www.jainelibrary.org