SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] " < 6 किन्नर कन्यकासु वा । गन्धर्वस्त्रीषु गन्धर्व कन्यकासु वेत्यर्थः । पुंयोगादज्येष्ठादिभ्यः इति स्त्रियां ङी । किन्नरस्य भार्या कन्या वा किन्नरी । अत्र किन्नर कन्यात्वमौपचारिकं देवानां वैक्रियिकशरीरधारित्वात्कन्याद्यपत्यासम्भवात् । पुंयोगेनात्र जन्यजनकभावोऽपि गृह्यते । उक्तं च तत्त्वबोधिनीकारैः- स [ पुंयोगः ] चेह दम्पतिभाव एवेति नाग्रहः, किन्तु जन्यजनकभावोऽपि गृह्यते, सङ्कोचे मानाभावात्' इति । तज्जयं त्रिपुरविजयं गायन्तीषु गानं कुर्वाणासु सतीषु । ' यद्भावाद्भांवगतिः ' इतीप् । कन्दरीषु दरीषु । वा स्त्री तु कन्दरो दर्यामङ्कुशे पुंसि कन्दर: ' इति विश्वलोचने । निर्ह्रादी प्रतिध्वनन् स्यात् भवेत् चेत् यदि तत्र भगवदर्हच्चरणन्याससमीपप्रदेशे । पशुपतेः प्राणिगणसंरक्षकस्य भगवतोऽर्हतः । पशवः श्रेयोमार्गानभिज्ञाः प्राणिनः । 'पशुमृगादौ प्रम पशुमारिकात्मनि । अज्ञाने छागमात्रेऽपि ' इति विश्वलोचने । शुद्धज्ञानस्वभावस्य कर्मावृतत्वादज्ञत्वात्प्राणिनां संसारिणां पशुत्वमित्यूह्यम् । पशून् अज्ञानान् प्राणिनः पातीति भगवतोऽर्हतः पशुपतित्वं । ' पाति पतिः । पातेर्डतिः ( उ. ४९७ ) इति क्षीरस्वामी । पशूनामज्ञानानां प्राणिनां पतिः पाता पशुपतिः । तस्य । उक्तं चाशाधरैरनगार वर्मामृते ' श्रेयोमार्गानभिज्ञानिह भवगहने जाज्ज्वल दुःखदाव- । चक्रे चङ्कम्यमाणानतिचकितमिमानुद्धरेयं वराकान् ॥ इत्यारोहत्परानुग्रहरसविकसत्प्रक्रमोपात्तपुण्यप्रक्रान्तैरेव वाक्यैः शिवपथमुचिताञ् शास्ति योऽर्हन् स नोऽव्यात् ॥ ' इति । सङ्गी तार्थः सङ्गीतवस्तु । ' तौर्यत्रिकं तु सङ्गीतं न्यायारम्भे प्रसिद्धके । तूर्याणां त्रितये च इति शब्दार्णवे । ' अर्थः प्रयोजने चित्ते हेत्वभिप्रायवस्तुषु । शब्दाभिधेये विषये स्यान्निवृत्तिप्रकारयोः इति विश्वलोचने । सङ्गीतमेवार्थः सङ्गीतार्थः । ननु खलु समस्तः समग्रः । सम्पूर्णः इत्यर्थः । भावी भविष्यति । ' गम्यादिर्वत्स्र्यति' इति गम्यादौ पठितः ' भुवश्च' इति णिना साधितः भावीतिशब्दः : भविष्यत्यर्थे साधुः । कथं भगवतोऽर्हतः पशुपतिरिति सञ्ज्ञा सम्भवतीति नाऽशङ्कनीयं, तस्याज्ञप्राणिगणपातुत्वात्तन्नाम्नः गौणत्वात् । " " Jain Education International २१ If your thundering sound would be echoing in the valleys (or caves) like the sound of a drum in the drum itself when the bamboos would be giving out deep and very loud sounds clearly as described above at the time of praying Jina, and the Kinnara ladies would be singing loudly the victory over the three bodies in a manner producing a confused noise, there the concert of the protector of living beings (i. e. Jina ) would indeed be made perfect. For Private & Personal Use Only " www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy