SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २१६ [पार्धाभ्युदये सनि ' सन्भिक्षाशंसादुः' इत्युः । संरक्ताभिः सातिशयभक्तिभाग्भिः । किन्नरीभिः किन्नरस्त्रीभिः। 'व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः' इति. सूत्रोक्तदेवविशेषस्त्रीभिरित्यर्थः । त्रिपुरविजयः औदारिकतैजसकार्मणशरीरत्रयविजयः। अनादिकालसम्बद्धशरीरत्रयजिहीर्षया तपस्यतस्तत्त्याग एव तज्जयः । मोक्षप्राप्तिरित्यर्थः। त्रयाणां पुराणां शरीराणां समाहारः त्रिपुरं । 'रात्' इति स्त्रियां प्राप्तस्य डोत्यस्य 'स्त्यपात्राद्यत्' इत्यकारान्तस्यापि पुरशब्दस्य पात्रादौ पठितत्वात्प्रतिषिद्धत्वात् 'र: समाहारे' इति नप् । 'पुरं पाटलिपुत्रे स्याद्गृहोपरिगृहे गृहे । पुरं देहे गुग्गुलौ तु पुरः पुरि पुरं न ना। दशपूर्वस्तु वालेये' इति विश्वलोचने। तस्य विजयः पराजयः । अभिभवो दमनं वेत्यर्थः । 'स्यिः समाहारे रश्चाखौ' इति त्रिशब्दस्य सङ्ख्यावाचिनः सुबन्तोत्तरपदेन सह रसः। ___In the vicinity of it, the bamboos, being filled with wind, desirous of having a discourse upon the musical instruments, produce sweet sounds indeed. The victory over the three bodies is sung there by the Kinnara ladies, devoted very much, desirous of worshipping Jina, the lord of ihe world. वेणुष्वेषु स्फुटमिति तदा मन्द्रतारं ध्वनत्सु प्रोद्गायन्तीष्यतिकलकलं तजयं किन्नरीषु । निहींदी ते मुरव इव चेकन्दरीषु ध्वनिः स्यात् सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्तः ॥ ६८॥ अन्वय :- तदा एषु वेणुषु इति स्फुटं मन्द्रतारं ध्वनत्सु, किन्नरीषु तजयं अतिकलकलं प्रोद्गायन्तीषु ते ध्वनिः मुरवे इव कन्दरीषु निर्हादी स्यात् चेत्, तत्र पशुपतेः सङ्गीतार्थः ननु समस्तः भावी । वेणुवित्यादि । तदा भगवदर्हचरणन्यासाराधनावसरे एषु तेषु तत्रत्येषु वेणुषु मस्करेषु । कीचकेष्वित्यर्थः । इति पूर्वश्लोकोक्तप्रकारेण । 'वशे त्वक्सारकरित्वचिसारतृणध्वजाः । शतपर्वा यवफलो वेणुमस्करतेजनाः' इत्यमरः । 'इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने' इति विश्वलोचने । स्फुटं प्रव्यक्तं मन्द्रतारं । मन्द्रः गम्भीरस्तारोत्युच्चः ध्वनिः यथा स्यात्तथा मन्द्रतारं । 'कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु । नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः' इत्यमरः । ध्वनत्सु ध्वनि कुर्वाणेषु । किन्नरीषु किन्नरस्त्रीषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy