________________
द्वितीयः सर्गः]
२१५
वृत्तिः इति महावृत्तिकारोक्तेः श्रतो गित्वम् । स्थिरगणपदप्राप्तये । गणानां आचीर्णतीव्रतपस्यानां मुनिसङ्घातानां पदं स्थानं मोक्षः शुद्धपर्यायो वा गणपदं । स्थिरमविनश्वरं च तद्गणपदं च स्थिरगणपदम् । शुद्धपर्यायस्याविनश्वरत्वास्थिरोतविशेषणम् । तस्य प्राप्तये तत्प्राप्तुं । ' ध्वर्थवाचोऽर्थात्कर्मणि स्थानिनः' इत्यप् । कल्पिष्यन्ते समर्थाः भविष्यन्ति ।
May you, on seeing this ( foot-print), on seeing which the devotees with their sins shaken off completely establish a holy place of Siddhas (the souls attaining salvation ) after the abandonment of their bodies, become purified. Those, having full faith in this, would be able to attain the everlasting position attained by hosts of sages.
तस्योपान्त रिरचयिषवो नूनमातोधगोष्ठी
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः । तत्रासेवां वितितनुषुभिर्लोकभर्तुर्जिनस्य
संरक्ताभित्रिपुरविजयो गीयते किन्नरीभिः ॥ ६७ ॥ अन्वयः-- तस्य उपान्ते आतोद्यगोष्ठी रिरचयिषवः अनिलैः पूर्यमाणाः कीचकाः नूनं मधुरं शब्दायन्ते। तत्र लोकभर्तुः जिनस्य आसेवां वितितनुषुभिः संरक्ताभिः किन्नरीभिः त्रिपुरविजयो गीयते ।
तस्येत्यादि। तस्य भगवदर्हच्चरणन्यासस्य उपान्ते समीपे आतोधगोष्ठी वादित्रविषयकं सम्भाषणं। आतोद्यं चतुर्विध वाद्य । 'चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्' इत्यमरः। तस्य गोष्ठी नानोक्तिसम्पन्ना सभा । ' समज्या परिषद्गोष्ठी सभासमितिसंसदः । आस्थानी क्लीवमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । 'गावो नानोक्तयस्तिष्ठन्त्यस्यामिति गोष्ठी' इति क्षीरस्वामी । ताम् । रिरचयिषवः रचितुमिच्छवः 'तुमीच्छायां धोर्वोप' इतीच्छायां सनि 'सन्भिक्षाशंसादुः' इत्युः। अनिलैः वायुभिः पूर्यमाणाः ध्मायमानाः कीचकाः वेणवः । 'वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । नूनं मधुरं मनोशं यथा स्यात्तथा शब्दायन्ते शब्द कुर्वन्ति । ' शब्दादेः कृत्रि' इति शब्दादिबन्तात्करोत्यर्ये क्यङ् । तत्र भगवदर्हचरणन्याससमीपप्रदेशे लोकभर्तुः त्रिलोकाधिपतेः जिनस्य अर्हतः आसेवां भक्ति वितितनुषुभिः वितनितुमिच्छुभिः। कर्तुमिच्छुभिरित्यर्थः । 'तुमीच्छायां धोर्वोप्' इतीच्छायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org