________________
२११
[पार्धाभ्युदय पापापाये पापकर्मनाशकर्मणि भाक्तः एव जिनेन्द्रसेवैव । 'भक्तिर्विभागे सेवायो" इति विश्वलोचने । प्रथम मुख्य कारणं निदानं उदितं निवेदितम् । प्राचार्यैरिति शेषः ।
As devotion only is described as the excellent means of destroying sin, you, bowing down in devotion, should circumambulate the foot print of the lord, Jina ( Arhat ), the preceptor of all the three worlds, distinctly manifested on a stone there, worthy of being worshipped by a god wearing a crown bearing a mark of the crescent-moon, worshipped by the demigods that are highly respected.
यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः ।
सिद्धक्षेत्रं विदधति पदं भक्तिभाजस्तमेनम् । दृष्टा पूतस्त्वमपि भवताद्वै, पुनर्दूरतोऽमुं।
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ६६ ॥ अन्वयः- यस्मिन् दृष्टे उद्धृतपापाः भक्तिभाजः करणविगमात् ऊर्ध्वं सिद्धक्षेत्र विदधति । एनं पदं दृष्ट्वा त्वं अपि पूतः भवतात् । अमुं दूरतः श्रद्दधानाः स्थिरगणपदप्राप्तये कल्पिष्यन्ते । .
यस्मिन्नित्यादि । यस्मिन् भगवदहश्चरणन्यासे दृष्टे अवलोकिते सति । 'यद्धावाद्भावगतिः' इति ईप । उद्धृतपापाः विगलितकर्ममलकलकाः । उद्धृतं विगलितं पापं कर्ममलकलङ्कः येषां ते उद्धृतपापाः। भक्तिभाजः परमार्थभूताप्तागमतपोभृन्द्धानजुषस्तत्त्वार्थश्रद्धानजुषों वा । भक्ति श्रद्धानं भजन्ते सेवन्ते इति भक्तिभाजः । 'भजो ण्विः' इति ण्विः । करणविगमात् ऊवं द्रव्यमोक्षादनन्तरं । करणस्य गात्रस्य शरीरस्य विगमः विलयः आत्मनः पृथग्भावः करणविगमः । तस्मात् । ऊर्ध्व अनन्तरं । 'करणं साधकतमे कार्यकायस्थकर्मसु । क्रियायामिन्द्रिये क्षेत्रे करणं बालवादिषु । गीताङ्गाहारसंवेशक्रियाभेदेऽपि चेष्यते।' इति विश्वलोचने। 'क्षेत्र शरीरे दारेषु केदारे सिद्धसंश्रये' इत्यपि विश्वलोचने एव । सिद्धक्षेत्रं सिद्धसंश्रयं । सिद्धिगतिगमनस्थानमित्यर्थः । विदधति कुन्ति । एनं एतत् पदं अर्हचरणन्यासस्थानं दृष्ट्वा विलोक्य
त्वं अपि भवानपि पूतः विगलितकर्ममलकलकत्वाच्छुद्धः भवतात् भव । 'तुह्योर्ड्स - ताद्वा' इत्याशिषि हे तात् । अमुं भगवदईन्चरणन्यास दूरतः अत्यर्थं श्रद्दधानाः ... श्रद्धानं कुर्वाणाः । भजमानाः इत्यर्थः । 'तिरोऽन्तौं' इति प्रयोगात् श्रदन्तरोर्गिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org