________________
द्वितीयः सर्गः]
२१३
'उपहृतबलिं भर्तुः त्रिभुवनगुरोः अर्हतः चरणन्यासं भक्तिनम्रः [सन् ] परीयाः [यतः] पापापाये भक्तिः एव प्रथमं कारणं उदितं ।
तत्रेत्यादि । तत्र हिमवति दृषदि शिलायां । 'पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्' इत्यमरः । व्यक्तं प्रकटम् । अर्धेन्दु मौलेः। अर्धः खण्डभूतः इन्दुरिवेन्दुः चिह्नभूतः यत्र यस्य वा अर्धेन्दुः । अर्धशब्दस्यात्र खण्डवाचित्वात्समांशवाचि. त्वाभावात्पुंस्त्वेन निर्देशः समांशवाचिन एव ' अर्धे नए ' इति ' समेऽर्धम्' इति वा नप्त्वेन निर्देशात् । 'अर्ध समांशके क्लीवं अर्धः खण्डे पुमानपि ' इति विश्वलोचने । इन्दुरिवेन्दुरित्यत्र 'उश् चर्चार्थध्वजचित्रे' इति ध्वजार्थे चिह्नार्थे विधीयमानस्य कस्योस् । तेनार्धेन्दुरित्यस्यार्धेन्दुचिह्नः इत्यर्थः । उक्तं च- 'अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृती नाशः कृतो देवपथादिषु' इति, 'मत्स्याश्वपुष्पाणि च तारकाश्च चन्द्रार्धचन्द्राश्च पतत्रिणश्च । तस्मिन्निवार्थे उसमाचरेज्ज्ञः प्रासादगुल्मार्कमया मृगाश्च' इति च । अर्धेन्दुहेलिः किरीटं यस्य सः। तस्यार्धेन्दुमौलेरर्धेन्दुचिह्नाङ्कितकिरीटधारिणो देवविशेषस्य वा । 'चूडा किरीटं केशाश्च संयता मौलवस्त्रयः' इत्यमरः । 'मौलिधम्मिल. चूडयोः। किरीटेऽपि' इति विश्वलोचने । अच्य पूज्यं । 'व्यस्य वा कर्तरि' इति ता । किरीटधारिणा देवविशेषेण पूज्यमित्यर्थः । सत्सपर्यः सत्परिचयः सदहणेर्वा । सती समीचीना सपर्या परिचर्या शुश्रूषा वा येषां ते । तैः । सपर्याशन्दोऽर्चार्थोऽपि । 'सपर्याऽर्चाऽर्हणा समाः' इत्यमरः । सिद्धैः देवयोनिविशेषैः । 'सिद्धस्तु नित्ये निष्पन्ने प्रसिद्ध देवयोनिषु' इति विश्वलोचने । शश्वत् सर्वकालं उपहृतबलिं विहितपूजाविधि । उपहृतः कृतः बलिः पूजाविधिः यस्य सः ! 'बलिश्चामरदण्डेऽपि करपूजोपहारयोः । सैन्धवेऽपि ' इति विश्वलोचने। भर्तुः त्रैलोक्याधिपतेः त्रिभुवनगुरोः त्रिभुवनाज्ञाननिवारकस्य । उक्तं च 'गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तनिवारकः' इति । त्रयाणां भुवनानां समाहारः त्रिभुवनं । 'रात्' इति स्त्रियां प्राप्तस्य ङीत्यस्य 'त्यपात्राद्यत्' इत्यकारान्तस्यापि भुवनशब्दस्य पात्रादौ पठितत्वात् प्रतिषिद्धत्वात् ': समाहारे ' इति नप् । त्रिभुवनस्य गुरुः त्रिभुवनगुरुः । तस्य । अर्हतः भगवतो जिनेन्द्रस्य चरणन्यासं पादन्यासं । न्यस्यते निक्षिप्यते इति न्यासः । प्रतिष्ठितचरणद्वयमित्यर्थः । ' चरणोऽस्त्री बचादौ मूलेऽपि पदगोत्रयोः । चरणं भ्रमणेऽझौ स्यात् ' इति विश्वलोचने । भक्तिनम्रः भक्त्या नमनशीलः सन् । ' नम्कम्पिरम्यजस्कहिंसदीपो रः' इति शीले रः। भक्तिभारावनतः सन्नित्यर्थः । परीयाः परितः, इयाः यायाः। प्रदक्षिणयेत्यर्थः । अर्हच्चरणविन्यासं प्रदक्षिणीकुर्वित्यर्थः। यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org