SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २१२ [पार्धाभ्युदये भनौकनिष्ठाः स्वाङ्गभञ्जनैकव्यापाराः। स्वं स्वकीयं अङ्गं शरीरं स्वाङ्गं । तस्य भगः भञ्जनमेव एका अद्वितीया निष्ठा व्यापारः येषां ते | 'निष्ठा निर्वहनिष्पत्तिनाशान्तोत्कर्षयाचने। क्लेशे' इति विश्वलोचने । निष्ठाशब्दोऽत्र क्लेशार्थकः। क्लेशशब्दश्च व्यवसायार्थोपि दृश्यते । . ' क्लेशो रोगेऽपि रोगादौ व्यवसाये च दृश्यते' इति विश्वलोचने । तैर्यग्योनाः तियग्योनेरागताः । तिर्यग्योनिजा इत्यर्थः । '-ततः आगतः' इत्यागतार्थेऽण् । स्तनितरभसात् त्वर्जितध्वनितद्धक्रोधात् भवन्तं त्वां उत्पतेयुः अभिद्रवेयुः तदा तान् शरभान् तुमुल करकावृष्टिपातावकीर्णान् । करकाः वर्षोपलाः । 'करका तु धनोपले ' इति विश्वलोचने । करकाणां धनोपलानां वृष्टिः वर्षे करकावृष्टिः । तस्याः पातः पतनं करकावृष्टिपातः । तुमुल: दारुणश्चासौ करकावृष्टिपातश्च तुमुलकरकावृष्टिपातः। तेन अवकीर्णाः प्रद्राविताः । तान् । कुर्वीथाः कुरुष्व । विधौ लिङ्। तथा हि -निष्फलारम्भयत्नाः । आरभ्यन्ते इत्यारम्भाः । कर्माणि इत्यर्थः । तेषु यत्नाः उद्योगाः आरम्भयत्नाः । निष्फलाः विफलाः । असिद्धप्रयोजनाः इत्यर्थः। निष्फलाश्च ते आरम्भयत्नाश्च निष्फलारम्भयत्नाः। 'निष्फला आरम्भयत्नः येषां ते निष्फलारम्भयत्नाः' इति योगिराजकृतं व्याख्यानं 'के' इति पाठस्य संग्रहे क्रियमाणेऽसमञ्जसम् । केषां परिभवपदं केषां पुंसां तिरस्कारास्पदं न स्युः न भवेयुः। सर्वेषां तिरस्कारास्पदं भवेयुरित्यर्थः। If these beasts, exceedingly deprived of intellecual qualities, exerting only for tearing down their own bodies, would possibly surprise you on account of their passion being excited by your thunderings, then you should put them to rout by heavy hail-storms; whose attempts at doing what they have undertaken would not become an object of contempt when rendered futile ! तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले - ..... रयं भर्तुस्त्रिभुवनगुरोरर्हतः सत्सपर्यः । शश्वत्सिद्धरुपहृतबालि भक्तिनम्रः परीयाः पापापाये प्रथममुदितं कारणं भक्तिरेव ॥६५॥ अन्वयः-- तत्र दृषदि व्यक्तं, अर्धन्दुमौलेः अर्य, सत्सपर्यैः सिद्धैः शश्वत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy