________________
२०६
वक्षस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रिनयनवृषोत्खातपङ्केोपमेयाम् ॥ ५९ ॥
[ पार्श्वाभ्युदये
अन्वयः- आविर्मदकलमयूराखैः कृष्यमाणः कुञ्जे कुञ्जे घनं दधि इव हिमानीं प्रेक्षमाणः अध्वश्रमविनयने तस्य शृङ्गे आरुह्य निषण्णः शुभ्रत्रिनयनवृषोत्खातपङ्कापमयां शोभां वक्ष्यसि ।
"
1
आरुह्येत्यादि । आविर्मदकलमयूरारवैः । आविः प्रादुर्भूतः मदः आनन्दः आविर्मदः । ' प्राकाश्ये प्रादुराविः स्यात्' इत्यमरः । मदो मृगमदे मद्ये दानमुद्गर्वरेतसि ' इति विश्वलोचने । तेन कलाः मधुराव्यक्ताः आविर्मदकलाः । ' कलस्तु मधुराव्यक्तशब्देऽर्ज'र्णे कलं सिते ' इति विश्वलोचने । मयूराणामारवाः मयूरावाः । आविर्मदकला : मयूरावा : आविर्मदकलमयूरारवाः । तैः । कृष्यमाणः अपह्रियमाणमनस्कः कु कु प्रतिकुञ्जं । प्रतिलता भवनमित्यर्थः । वीप्सायां द्विः । घनं पिण्डीभूतं । सान्द्रीभूतमित्यर्थः । ' काठिन्ये चाथ कठिने सान्द्रेऽपि च घनं त्रिषु' इति विश्वलोचने । दधि इव दधिवत् | हिमानीं हिमसंहति । ' हिमानी हिमसंहतिः' इत्यमरः । उरु हिमं हिमानी । ' 'हमारण्यादुरौ ' इति महत्यर्थे हिमशब्दात् ङी आनुकू च । प्रेक्षमाणः 'विलोकयन् । अध्यश्रमविनयने देशभ्रमणजनितश्रमपरिहारार्थं । अध्वनो देशपरिभ्रमस्य श्रमः खेदः अध्वश्रमः । देशपरिभ्रमणजनितः श्रमः इत्यर्थः । तस्य विनयनं परिहारः 'अध्वश्रमविनयनं | 'करणाधारे चानट्' इति भावेऽनट् । ईवत्र हेतौ 'हेतौ सर्वाः प्रायः ' इति । यद्वाऽध्वश्रमस्य विनयनं परिहर्तृ अध्वश्रमविनयनं । ' व्यानड् बहुलं ' इति कर्तर्यनट् । एवंकृतव्याख्यानस्यास्य सामासिकपदस्य शृङ्गेि' इत्यस्य विशेषणत्वमभ्यूह्यम् । तस्य हिमवदद्रेः शृङ्गे सानौ आरुह्य आरोहणं कृत्वा । तमिति शेषः निषण्णः उपविष्टः शुभ्रत्रिनयनवृषेोत्खात पङ्कोपमेयां धवलरौद्रवृषभोत्खातजम्बालेनोपमानाहम् | त्रिनयनस्य त्र्यम्बकस्य रुद्रस्येशान दिगिन्द्रस्य वृषः वृषभः त्रिनयनवृषः । `शुभ्रः धवलवर्णश्चासौ त्रिनयनवृपश्च शुभ्रत्रिनयनवृषः । तेन उत्खातः शृङ्गाग्रविदारितश्चासौ पङ्कश्च । तेन सहोपमेयां उपमातुं योग्यां । ' तृज्व्याचा ' इत्यर्थे व्यः । शोभां सौन्दर्य वक्ष्यसि वोढासि । वहतेर्लट् । त्रिनयनेत्यत्र ' प्राक्पदस्थात् खौ' इति प्राप्तस्य नकारादेशस्य 'क्षुम्नाद्यन्तेषु' इति प्रतिषेधः क्षुम्नादेशकृतिगणत्वात् त्रिनयनेत्यस्य तत्रान्तर्भावात् श्रीनन्दिहरिनन्द्यादिवत् ।
1
"
,
You, attracted by the indistinct and charming cracklings of peacocks given out through joy manifested (by the peacocks on
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org