________________
द्वितीयः सर्गः]
२०७
listening to the thundering sounds of you, the cloud ), looking in every bower of creepers at the masses of snow looking like (or resembling ) solid curd, resting on its peak on having ascended (it) for the sake of removing (your ) exhaustion of the journey, would possess a charm comparable to that of the mud dug up by the white bull of the threeeyed one (i. e. Rudra ).
अध्वक्षामं शिथिलिततर्नु शैलमार्गाधिरोहात्वामौल्लध्ये घटयितुमसौ शक्नुयादेव वह्निः ।
धूमैः सान्द्रैर्वनविटपिजैन तिवर्षन्नुपेयाः त्वं चे द्वायौ सरति सरलस्कन्धसमट्टजन्मा ॥ ६० ॥
अन्वयः- त्वं वायौ सरति अतिवर्षन् न उपेयाः चेत् सरलस्कन्धसङ्घट्टजन्मा असौ वह्निः वनविटपिजैः सान्द्रः धूमः अध्वक्षामं शैलमार्गाधिरोहात् शिथिलिततर्नु त्वां औलध्ये घटयितुं शक्नुयात् एव ।
अध्वक्षामभित्यादि । त्वं भवान् वायौ समीरणे सरति वहति सति । सरतीति सरन् । तस्मिन् । 'यद्भावाद्भावगतिः' इतीप् । अतिवर्षन् अतिवृष्टिं विदधानः । अतिवर्षतीति अतिवर्षन् । न उपेयाः। हिमवदचलसमीपं न गच्छेश्चेत् यदि तदा सरलस्कन्धसङ्घजन्मा। सरलाः पीतदारवः । देवदारुद्रुमाः इत्यर्थः । 'पीतद्रुः सरलः पूतिकाष्ठं चाऽथ द्रुमोत्पलः' इत्यमरः । सरलानां स्कन्धाः प्रकाण्डाः महत्यः शाखाः सरलस्कन्धाः। 'स्कन्धः कायप्रकाण्डयोः' इति विश्वलोचने । तेषां सङ्कट्टनेनान्योन्यसङ्गर्षणेन जन्म उत्पतिः यस्य सः । व्यधिकरणोऽप्ययं बसोऽवयों जन्मोत्तरपदत्वात् 'अवयों व्यधिकरणो बहुप्रीहिर्जन्मायुत्तरपदः' इत्युक्तेः । असौ वह्निः एष धनञ्जयः वनविटपिजैः अरण्यतरुसम्भूतैः । वनविटपिभ्यो वन्यवृक्षेभ्यो जाताः सम्भूताः वनविटपिजाः । तैः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः । सान्द्रः घनः। 'सान्द्रं त्रिषु घने मृदा' इति विश्वलोचने । धूमैः धूमनातैः । अध्वक्षामं प्रयाणायासकृशीकृतकायम् । अध्वना प्रयाणेन क्षामः क्षीणतनुः अध्वक्षामः । तम् । 'क्षो मः, इति क्षायतेस्ततकारस्य मादेशः । शैलमार्गाधिरोहात् । शैलस्य भूधरस्य मार्गः पन्थाः शैलमार्गः । तत्र तस्य वा आरोहः आरोहणं शैलमार्गाधिरोहः । तस्माद्धतुभूतात् । हेतावत्र का। शैलमार्गाधिरोहणेनेत्यर्थः । शिथिलिततर्नु दुर्बलतर्नु । शिथिलता शिथिलीकृता तनुः शरीरं यस्य सः । तम् । शिथिलयति शिथिलीकरोति स्म शिथिलिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org