________________
द्वितीयः सर्गः]
२०५
उपान्तयन्तं इव, स्वस्याः कीर्तेः इव विधुरुचः तस्याः नाकमाजां स्रवन्त्याः एव प्रभवं तुषारैः गौरं हिमाकं अचलं प्राप्य पश्य ।
विश्रभ्येत्यादि । अथो अनन्तरं । 'अथाऽथो च शुभे प्रश्ने साकल्यारम्भसंशये। अनन्तरेऽपि ' इति विश्वलोचने । हे घन मेघ विश्रम्य मार्गश्रममपनीय घनपथोल्लधिकूटं आकाशोलडिशिखरं । घनस्य मेघस्य पन्थाः घनपथः । आकाशमित्यर्थः । 'ऋक्पूरप्पथोत्' इत्यत्समासान्तः । 'द्यौराकाशमन्तरिक्षं मेघवायुपथोऽपि' इति धनञ्जयः घनपथमुल्लङ्घयतीति घनपथोलधि । तत्कूटं शिखरं यस्य सः । तम्। उदग्रैः उच्छ्रितैः । 'उच्चप्रांशून्नतोदग्रप्रोच्छ्रिताः' इत्यमरः। शिखरतरुभिः शिखरोत्पन्नवृक्षः। त्वां भवन्त उपान्तयन्तं इव उपान्ते समीपे आह्वयन्तं । उपान्ते आह्वयतीत्युपान्तयति । उपान्तयतीति उपान्तयन् । तम् । ' मृदो ध्वर्थे णिज्बहुलम्' इति णिच् । ततश्च शतृत्यः। तमिव । उत्प्रेक्षायामत्रेवशब्दः । स्वस्याः स्वकीयायाः कीर्तेः इव यशसः इव विधुरुचः धवलवर्णायाः । विधोश्चन्द्रमसः रुगिव रुग्यस्याः सा । तस्याः। 'ईबुमानपूर्वस्य द्युखं गतार्थत्वात् ' इति शुखम् । तस्याः प्रसिद्धायाः नाकभाजांसवन्त्याः देवतरङ्गिण्याः । गङ्गायाः इत्यर्थः । न विद्यते अकं दुःखमत्रेति नाकः स्वर्गः । 'अकं दुःखाघयोः' इति विश्वलोचने । 'आकाशे त्रिदिवे नाकः' इत्यमरः ! नाकं भजते इति नाकभाक् । 'भजो ण्विः ' इति ण्विः। तेषां नाकभाजां स्रवन्त्याः एव निम्नगायाः एव । 'लवन्ती निम्नगाऽऽपगा' इत्यमरः । प्रभवं उद्गमस्थानं । प्रभवत्युद्गच्छत्यस्मादिति प्रभवः । तम् । 'प्रभवो जन्महेतौ स्यादपांमूले पराक्रमे । प्रभवः किंवदन्तीनां सञ्चारगतिकारके' इति विश्वलोचने । तुषारैः हिमसंहतिभिः 'अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमं । प्रालय मिहिका चाऽथ हिमानी हिमसंहतिः' इत्यमरः। गौरं धवलकायं । 'सितो गौरोवलक्षः' इत्यमरः । हिमाङ्क हिमालयाभिधानं । ' अङ्को रेखायां चिह्नलक्ष्मणोः" इति विश्वलोचने । अचलं भूधरं प्राप्य गत्वा पश्य अवलोकय ।
Afterwards, 0 cloud I having taken rest, you, on reaching the mountain called Himalaya, white with snow, the source of that very river of gods white like her own fame, calling you as if near with the tall trees grown on its peaks, with its peaks rising above in the sky, should look at it.
आरुह्याविर्मदकलमयुरारवैः कृष्यमाणः कुञ्ज कुञ्ज दधि घनमिव प्रेक्षमाणो हिमानीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org