SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २०४ [पार्थाभ्युदये स्यात्तथा । ' द्विविभज्ये तरः ' इति प्रकृष्टे तरः ।चर्मपूरं प्रपूर्णः दृतिरिवः प्रपूर्णः चर्म दृतिः चर्ममयत्वात्तस्याः । चमेव प्रपूर्णः सम्भृतः चर्मपूरं प्रपूर्णः । 'कर्मणि चेवे' इति पूरेणम्पूररेव धोरनुप्रयुक्तत्वात् । ' चर्मोदरे पूरेः' इति णमः परकालेककर्तृकत्वस्याप्राकरणिकत्वादानर्थक्यम् । किश्चित् ईषत् गत्वा प्रक्रम्य हिमवदचलस्य हिमालयाख्यस्व भूधरस्य अनुपादं प्रत्यन्तपर्वते । 'झिः सुब्-' इति ईबर्थे हसः । 'पादोऽस्त्री चरण मूले तुरीयांशेऽपि दीधितौ । शैलप्रत्यन्तशैले ना' इति विश्वलोचने । तत्पर्यन्ते हिमवदचलप्रत्यन्तप्रदेशे । आसीनानां निषण्णानां मृगाणां कस्तूरीमृगाणां नाभिगन्धः कस्तूरिकागन्धैः । नाभेः कस्तूरिकायाः गन्धाः नाभिगन्धाः । तैः । 'नाभिर्ना क्षत्रे चक्रवर्तिनि । द्वयोः प्रधानचक्रान्तः प्राण्यड्रेषु मदे स्त्रियाम् ' इति विश्वलोचने । ' मृगनाभिर्मंगमदः कस्तूरी' इत्यमरः । 'नाभिः प्रधाने कस्तूर्या मदे च क्वचिदीरिता' इति विश्वः । मुरभिताशलं सुरभीकृतप्रस्तरं । सुरभिताः सुरभीकृताः शिलाः प्रस्तराः यस्य तत् । सुरभिताः सुरभीकृताः । ' मृदो ध्वर्थे णिज्बहुलं' इति णिजन्तात्क्तः । प्रेक्षणीयं मनोहरं वनपरिकरं वनविस्तारं । 'वृन्दप्राभवयोश्चैव पर्यङ्कपरिवारयोः । आरम्भे च परिस्तारे भवे परिकरस्तथा' इति कोशान्तरे । प्रपश्यन् अवलोकयन् निषीद उपविश । ' षद्ल. विशरणगत्यवसादनेषु' इत्यस्य धोः 'पाघ्राध्मास्थाम्नादाणदृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यछंशीयसीदाः ' इति सीदादेशः । लोट् । Thus, you, filled up with charming water to your utmost capacity like a leathern bag meant for holding water, proceeding on a little, should sit on a hill at the foot of the mountain, Himalaya, enjoying the sight of the expanse of the beautiful forests grown in the adjoining regions of the mountain having its rocks perfumed by the fragrance of the musk of the musket-dear sitting on them. विश्रम्याऽथो घन घनपथोल्लङ्घिकूटं हिमाङ्क पश्योदः शिखरतरुभिस्त्वाभिवोपान्तयन्तम् । स्वस्याः कितैरिव विधुरुचो नाकभाजां स्रवन्त्या स्तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ॥ ५८ ॥ अन्वयः-- अथो धन ! विश्रम्य घनपथोलङ्कूिटं उदग्रैः शिखरतरुभिः त्वां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy