________________
१९८
[पार्धाभ्युदये मोपेक्षिष्ठास्त्वमुपनदिकेत्याशुगत्वा प्रविश्य
प्राहुस्तीर्थप्रतिनिधिमपि क्षालनं कश्मलानाम् । ता सेवेथाः सुभग सुरसां लोकरूढेः प्रतीतां
जनोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।। ५२ ।। अन्वयः-- (हे) सुभग ! उपनदिका इति प्रविश्य आशुगत्वा त्वं मा उपेक्षिष्ठाः [यतः ] तीर्थप्रतिनिधि अपि कश्मलानां क्षालनं प्राहुः । लोकरूढेः प्रतीता जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्ति सुरसां तां सेवेथाः।
मेत्यादि । हे सुभग ! सुश्रीक । शोभनं भगः श्रीर्यस्य सः सुभगः । तस्य किः । 'भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मरित्नभानुषु' इति विश्वलोचने । उपनदिका इति स्वधुनीसादृश्यमावहन्ती महत्त्वायामापेक्षया स्वल्पेयं नदीति प्रविश्य सङ्क्रान्तप्रतिबिम्बात्मत्वेनावगाह्य आशुगत्वा शीघ्रगामी। प्रवेशानन्तरं शीघ्रं तां विमुच्य गच्छन्नित्यर्थः । आशु शीघ्रं गच्छतीति आशुगत्वा । ' मन्वन्वनिब्विचः कचित् ' इति वनिप् । त्वं भवान् मा उपेक्षिष्ठाः उपेक्षा मा कृथाः । ईक्षेर्लुङन्तमध्यमपुरुषैकवचनम् । 'लुङ्लङ्लङ्यमाङाट्' इत्यडागमप्रतिषेधः माङ्योगसद्भावात् । यतः तीर्थप्रतिनिधि अपि पुण्यक्षेत्रप्रतिनिधिभूतमपि कश्मलानां पापानां । क्षालनं निर्णेजकं । क्षालयतीति क्षालनं । 'व्यानड्बहुलम् ' इति कर्तर्यनट् । प्राहा ऊचुः । आचार्याः इति शेषः । जैनबौद्धचार्वाकेतरदार्शनिकापेक्षयेदमुक्तमित्यवसेयम् । लोकरूढेः लोकसङ्केताद्धेतुभूतात् प्रतीतां प्रसिद्धिमितां जहनोः जनुनृपतेः कन्यां तनयां । जलाप्लावितजनुयज्ञभूमित्वात्क्रुद्धेन जनुनापीय श्रोत्रेणोद्गीर्णत्वाद्गङ्गायाः जनुकन्यात्वमिति पौराणिकाः । सगरतनयस्वर्गसोपानपक्ति । सगरस्य तनयाः पुत्राः सगरतनयाः । तेषां स्वर्गारोहणार्थ विरचितां सोपानपति सोपानपरम्पराभूताम् । कपिलमहसाऽमर्षाप्लुष्टान् पितुः पितामहान् ( प्रपितामहान् ) तारयितुमाचीर्णतीव्रतपस्यो भगीरथो भागीरथीमध आनिनायेति पौराणिकी कथामनुसृत्येदमुक्तमित्यवसेयम् । सुरसा स्वादुजलां । शोभनः जिह्वासन्तर्पणः रसः जलं यस्याः सा । ताम् । ' रसः स्वादेऽपि तिक्तदो शृङ्गारादौ द्रवे विषे। पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति विश्वलोचने । तां गङ्गां सेवेथाः आराधय ।
O beautiful one ! you, leaving her immediately after plunging into her water, should not disregard her only tecause of her being a small
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org