________________
द्वितीयः सर्गः ]
१९९
river; since the learned say that even a representative of a holy land is a purifier from sins (impurities). You should worship the daughter of Jahnu, possessing sweet water, forming the flight of steps to heaven for the sons of Sagara, so known owing to the practice based on convention.
तामेवैनां कलय सरितं त्वं प्रपाते हिमाद्रेः गङ्गादेव्याः प्रतिनिधिगतस्यादिदेवस्य भर्तुः ।
गौरी वक्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोसिंहस्ता ॥ ५३॥
अन्वयः
-
या इन्दुल मोहिस्ता, गौरी, फेनै: वक्रभ्रकुटिरचना विहस्य इव हिमाद्रेः प्रपाते गङ्गादेव्याः प्रतिनिधिगतस्य शम्भोः आदिदेवस्य भर्तुः केशग्रहणं अकरोत् तां एव एनां सरितं त्वं कलय ।
+
तामित्यादि । या हिमवत्कुलाचलशिखरस्थपद्माख्यसरस्सम्भूता गङ्गा भिधाना महानदी इन्दुल मोर्मिहस्ता चन्द्रमोविमान संलग्नकल्लोलकरा । इन्दौ चन्द्रमसि लग्नाः सञ्जातसम्बन्धाः ऊर्मयः कल्लोला एव हस्ताः करा: यस्याः सा । समुत्थितचन्द्रमोविमानस्पृगभ्रङ्कषवीचिरित्यर्थः । गौरी शुभ्रवर्णा । गङ्गासलिलस्य दुग्धोपमत्वाद्वैौरवर्णत्वम् । गौरः श्वेतवर्णः अस्याः अस्तीति गौरी । ' गौरादिभ्यः इति स्त्रियां ङी । 'गौरः पुंसि निशाकरे । गौरः पीतारुणश्वेतविशुद्धेष्वभिधेयवत्' इति विश्वलोचने । फेनैः I डिण्डीरपिण्डैः । ' डिण्डीरोऽब्धिकफः फेनः ' इत्यमरः । वक्रभ्रुकुटि रचनां । भ्रुकुट्योः रचना भ्रुकुटिरचना । वक्रा कुटिला चाऽसौ स्कुटिरचना च वक्रभ्रुकुटिरचना | ताम् । यद्वा गौरीवक्रभ्रुकुटि रचनां । गौर्याः गौरवर्णायाः स्त्रियः वक्त्रे मुखे या भ्रुकुटि - रचना स्वपतिपरस्त्रीगामित्वविज्ञानात्सञ्जातामर्षायाः गौरवर्णस्त्रियः यद्भ्रूभङ्गकरणं तत् विहस्य इव अवहस्येव हिमाद्रेः हिमवत्कुलाचलस्य प्रपाते जलप्रपतनस्थानभूते गौ । 'प्रपातो निर्झरे कृच्छ्रे पतनावटयोरपि ' इति विश्वलोचने । गङ्गादेव्याः गङ्गाकुट वासिन्याः देव्याः । हिमवत्कुलाचलस्य गङ्गाजलौघप्रपतस्थानभूते प्रपाते गङ्गाभिधाना देवता गङ्गाकूटे निवासं करोति । तस्याः देवतायाः प्रतिनिधिगतस्य प्रतिबिम्बरूपस्य । गङ्गादेवीस्वामिनीकस्याकृत्रिमपाषाणप्रतिमारूपस्य शम्भोः अर्हतः । ' अर्हत्पिनाकिनौ शम्भू' इति धनञ्जयः । शं सुखं भवत्यस्मादिति शम्भुः । शं शुद्धात्मसुखरूपो भवतीति वा शम्भुः । मितंद्वादयः' इति शम्भुशब्दो निपातितः । ' विप्रशमोऽखौ डुः
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org