________________
१९६
[ पार्श्वभ्युदये
heart, would become dark only in complexion (and not impure at heart.)].
यास्ता नद्यः कुलगिरिभवाः स्वधुनीरूढिभाजः
तासामेताः प्रतिनिधितया तत्समाख्याः कुनद्यः । तीर्थालोके त्वमुपसर तां जाह्नवीं यन्मयोक्तं
__तरमाद्च्छे रनुकनखलं शैलराजावतीर्णाम् ॥ ५१॥ .. अन्वय :- याः नद्यः कुलगिरिभवाः ताः स्वर्धनीरूढिभाजः । एताः कुनद्यः तासां प्रतिनिधितया तत्समाख्याः । 'तीर्थालोके त्वं उपसर' इति यत् मया उक्तं तस्मात् अनुकनखले शैलराजावतीर्णा तां जाह्नवीं गच्छेः ।
याः इत्यादि । याः नद्यः याः सरितः कुलगिरिभवाः हिमवन्नभिधकुला.. चलसमुद्भूताः । कुलगिरौ हिमवति भवः जन्म यास ताः कुलगिरिभवाः । व्यधिकरणो बसः । 'अवो बहुवाहिय॑धिकरणो जन्मायुत्तरपदः ' इति वामनः । * हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः' इति तत्त्वार्थमहाशास्त्रोक्ताः घट् कुलाचलाः । अन्यशास्त्रापेक्षया तु ' महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षवतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः' इति सप्त ते। ताः गङ्गासिध्वादयो नद्यः । स्वर्धनीरुढिभाजः स्वस्तरङ्गिणीप्रसिद्धिमत्यः । स्वर्धनी देवनदी व्योमसरित् वा इति रूढिं प्रसिद्धिं भजन्ते वहन्तीति स्वर्धनीरूढिभाजः । 'भजो विः ' इति ण्विः । याः हिमवदादिकुलाचलसम्भूतयस्तासामेवात्युन्नतप्रस्थप्रदेशोद्भतत्वात् व्योमतरङ्गिण्यभिधानवत्वेन प्रसिद्धिः, नान्यासां तत्समाननाम्नामपि तदुद्भूतिस्थानभूतसानुप्रदेशानां तादृगौन्नत्याभावात् । एताः कुलाचलेतरधरणीधरोन्नततशिखराग्रसमुद्भूताः गङ्गासिन्ध्वादितत्तुस्याभिधानाः कुनद्यः स्वल्पसरितः । कुलाचलोन्नततमशिखराग्रभागसम्भूतगङ्गासिन्ध्वादिनद्यायामाविस्तारापेक्षयैतासां तदभिधानभाजामपि तरगणीनां स्वल्पायामविस्तारवत्त्वात्कुनद्यः इति व्यपदेशः इत्यवसेयम् । 'अल्पे' इति कोरीषदथत्वस्य ज्ञापकम् । 'कु निन्दायामीषदर्थे किल्बिषे वारणेऽपि च' इतिविश्वलोचने। तासां. कुलाचलसम्भवानां वाहिनीनां गङ्गासिध्वादीनां प्रतिनिधितया कुलाचलोद्भूतगङ्गासिध्वादिप्रतिकृतिरूपत्वात् । प्रतिनिधीयते प्रतिनिधिमुख्यसदृशी भवति । 'प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्' इत्यमरः । तत्समाख्याः कुलाचलसम्भूतगङ्गासिन्ध्वादितुल्या आख्या नामधेयं यासां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org