SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] १९५ __ सद्भिरित्यादि । सद्भिः सजनैः, ग्रहनक्षत्रप्रकीर्णकतारकादिभिर्वा तीर्णाः प्लाविताः अधिगताः व्याप्ताः वा । प्रतिफलितग्रहनक्षत्रादिबिम्बाः सजनप्लाविताः वेत्यर्थः । ' द्रातस्य तो नोऽमत्पमूच्छौं' इति तरतेः परस्य ततस्य नः । नस्य च णकारः । प्रविमलतराः प्रचुरनैर्मल्याः । 'गुणाङ्गाद्वष्ठेयसू' इति तरः प्रविमलशब्दस्य गुण मभिधाय द्रव्ये प्रवर्तनात् । प्रकृष्टाः प्रविमलाः प्रविमलतराः। सारस्वतीरापो विहायान्यासां तासां नैर्मल्यापेचयापकृष्टत्वात्सारस्व तीनामपां प्रविमलतरत्वमभिव्यञ्जितम् । पुष्कलाः अतिशयेन प्रशस्याः । श्रेयान् श्रेष्ठः पुष्कलः स्यात् ' इत्यमरः । सुप्रसन्नाः स्फटिकप्रभाः । सुतरां प्रसन्नाः विशदाः सुप्रसन्नाः । हृद्याः हृत्प्रियाः । 'हृद्यस्तु वशकद्वेदमन्त्रे वृद्ध्याख्यभेषजे । स्याच्छेतजीरके हृद्यं हृत्प्रिये हृद्वे त्रिषु' इति विश्वलोचने । 'हृदयस्थ हृल्लेखाण्यलासे' इति ये परतः हृदयस्य हृदादेशः । सद्यः ताक्षणे एव । 'सद्यः सपदि तत्क्षणे' इत्यमरः । कलिमलमुषः परम्परयेदंयुगीनपापापहारिण्यः । कलिमलं कलिकालेरितप्राणिगणविहितदुष्कर्मजनितपापं मुष्णन्ति अपहरन्तीति कलिमलमुषः। ताः। किम् । सतीनां एकपत्नीनां सदृक्षाः समानाः । समाना इव दृश्यन्ते सदृशाः । 'कर्मणीवे त्यदाद्यन्यसमाने दृशष्टक् सक् च' इति कर्मणीवार्थे सक् 'घट्टगदृशक्षे' इति दृक्षे परतश्च समानस्य सः । 'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सहक' इत्यमरः । या: अपः सरस्वतीनद्याः तासां सारस्वतीनां सरस्वतीनद्यां प्रवाहिनीनां । सरस्वत्याः इमाः सारस्वत्यः । तासाम् । अपां सलिलानां अधिगमं सेवनं कृत्वा विधाय हे सौम्य सुभग वर्णमात्रेण वर्णेनैव । ' मात्र कात्स्न्येऽवधारणे' इति विश्वलोचने । कृष्णः श्यामः अपि त्वं भवान् अन्तःशुद्धः अन्तरात्मनि शुद्धः पूतः । अन्तः आत्मनि शुद्धः पवित्रा विगलितपापकर्मा वा अन्तःशुद्धः । भविता भवन् । भविष्यसीत्यर्थः । कृदन्तं धातुत्वं न जहातीति परिभाषानुसारेण 'वर्तमानसामीप्ये वर्तमानवद्वा' इति आसन्नभविष्यत्यर्थे तृजन्तस्य भवितृशब्दस्य प्रयोगः ‘ण्वुल्तृचौ' इति तृच् वैकल्पिकः । त्वमसि भविता' इति योगिराजोररीकृतः पाठोऽपि समीचीनः । Ogentle one ! you, though dark only in complexion, having imbibed those waters of the Sarasvati which are plunged into by virtuous men (or which are pervaded by the reflexions of stars etc. ), which are very pure, excellent, pleasing to the heart, destroying immediately sin committed in this age called Kali and which resembla chaste women, would become pure inside, [ or you, though pure at Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy