SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ १९४ [ पार्श्वभ्युदये रन् सः लागली याः सिषेवे ताः पुंसां वन्द्याः भूमयः दृष्टमात्राः पुरा ते पुण्यं विदधति परिगमनतः त्वां सद्यः पुनन्ति एव । ताः इत्यादि । प्रजासु जनतायां । 'प्रजा सन्तानलोकयोः' इति विश्वलोचने। बन्धुस्नेहात् बन्धुप्रेम्णः । बन्धौ बान्धवे इव स्नेहः प्रेम बन्धुस्नेहः । तस्मात् । प्रजानां बान्धवतुल्यत्वात् तासु यत्प्रेम तस्मात् । 'बन्धुर्वधूभ्रातरि बान्धवे' इति विश्वलोचने।समरविमुखः युद्धपराङ्मुखः । प्रजाहिंसनभयात् परित्यक्यसाम्परायः इत्यर्थः । समरात् युद्धात् विमुखः पराङ्मुखः समरविमुखः। आत्तदीक्षः गृहीतमुनिदीक्षः । आत्ता गृहीता दीक्षा मुनिधर्मः येन सः । एनां इमां पृथ्वी भूमण्डलं विहरन् पर्यटन् सः लागली सः हला. युधः बलरामः । ' लागलं कुसुमान्तरे । गृहदारुविशेषे च सिरे ताले च लागलं' इति विश्वलोचने । लाङ्गलं सीरः अस्यास्तीति लाङ्गली । 'अतोऽनेकाचः' इति इन् । याः भूमयः सिषेवे सेवते स्म ताः भूमयः पुंसां पुरुषाणां वन्द्याः वन्दनीयाः। 'व्यस्य वा कतरि' इति ता । पुरुषैः वन्दनीयामित्यर्थः । भूमयः भुवः दृष्टमात्राः दृष्टाः एव । 'मात्रं कान्येऽवधारणे' इति विश्वलोचने । पुरा प्रथमं ते तव पुण्यं श्रियं कल्याण शुभं वा विदधति कुर्वन्ति । करिष्यन्तीत्यर्थः । 'पुरायावतोर्लट्' इति भविष्यत्यर्थे लट परिगमनतः प्रदक्षिणीकरणात् त्वां भवन्तं सद्यः सपदि पुनन्ति एव पवित्रीकरिष्यन्त्येव । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति समीपभविष्यत्यर्थे लट् । Those regions, worthy of being worshipped by men, to which the plough-bearer, averse to take any part in the battle out of his showing as much affection towards his subjects as shown towards his relatives, got initiated into monkhood, roaming on this earth, betook himself, would at first bring in merit only on seeing those and on going round it (or on arrival ), would at once purify you. सद्भिस्तीर्णाः प्रविमलतराः पुष्कलाः सुप्रसन्नाः हृद्याः सद्यः कलिमलमुषो याः सतीनां सदृक्षाः। कृत्वा तासामधिगममपां सौम्य सारस्वतीनां अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५० ॥ अन्यय :- सद्भिः तीर्णाः, प्रविमलतराः, पुष्कलाः, सुप्रसन्नाः, हृद्याः, सद्यः कलिमलमुषः, सतीनां सदृक्षाः याः, तासां सारस्वतीनां अपां अधिगमं कृत्वा (हे) सौम्य वर्णमात्रेण कृष्णः अपि त्वं अन्तःशुद्धः भविता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy