________________
द्वितीयः सर्गः] द्भावगतिः' इतोप् । सः प्रसिद्धः महीनिःस्पृहः। मह्या भूमौ निस्पृहः आशावशातीतः। विनष्टभूम्याशः इत्यर्थः । प्रात्तराजर्षिवृत्तः स्वीकृतमुनीन्द्राचारः । प्रात्तं स्वीकृत राजर्षेः वृत्तं आचारः येन सः । 'त्रिषु वृत्तं तु चरिते' इति विश्वलोचने । हलभृत् बलरामः। हलं लागलं बिभर्तीति हलभृत् । हलायुधः इत्यर्थः। रेवतीरमणो रामः कामपालो हलायुधः' इत्यमरः । अभिमतरसां। अभिमतः अभीष्टः रसः शृङ्गारादिः आनन्दः वा यस्याः सा। ताम् । अभिमतशृङ्गारादिरसमाविर्भावयन्तीमित्यर्थः । रेवतीलोचनाङ्कां रेवतीनयनलक्षणां । रेवत्याः हलिकान्तायाः लोचने नयने रेवतीलोचने । 'रेवती हलिकान्तायां ताराभेदेऽपि मातृषु' इति विश्वलोचने । ते एव अङ्को लक्षणं यस्याः सा। ताम् । 'अङ्को रेखायां चिह्नलक्ष्मणोः। नाटकादिपरिच्छेदोत्सङ्गयोरपि रूपके। चित्रयुद्धेऽन्तिके मन्तौ स्थानभूषणयोरपि ।' इति विश्वलोचने । मन्मथीयां। मन्मथस्येयं मन्मथीया । ताम् । 'वा नाम्नः' इति नाम्नः दुसज्ञत्वात् ' दोश्छः' इति छः । मन्मथसम्बन्धिनीमित्यर्थः। हालां सुरां । 'हाला मद्ये नृपे' इति विश्वलोचने। हित्वा परित्यज्य यस्मिन् पुण्यक्षेत्रे तपसि तपश्चरणार्थ । ' हेतौ सर्वाः प्रायः' इति हेतावीप् । अस्थात् अतिष्ठत् तत् प्रसिद्धं तस्य कुरुक्षेत्रस्य उपकण्ठे समीपे विद्यमानं । 'उपकण्ठान्तिकाभ्यांभ्यग्रा' इत्यमरः । पुण्यक्षेत्र तीर्थस्थानं अपि हि अवश्यं । 'हि विशेषेऽवधारणे। हि पादपूरणे हेतौ' इति विश्वलोचने। भजनीयं सेवनीयम् । तवेति शेषः 'तां क्षणेन व्यतीयाः' इति मयोक्ते सत्यपि कुरुक्षेत्रोपकण्ठदेशस्थितं तीर्थक्षेत्रं विहायाग्रगामी मा भूरिति शम्बरासुराभिप्रायः ।
In the vicinity of it that holy land even, wherein, after the disappearance of Krsna, the plough-bearer ( Baladeva), resorting to the mode of life of a great sage (or royal sage ) deprived of aspiration for kingdom ( lit. the earth ), having renounced liquor of the god of love in the form of the eyes of Revati, giving pleasure that is desired for, stayed for practising penance, should verily be resorted to by you.
तास्ते पुण्यं विदधति पुरा भूमयो दृष्टमात्राः
वन्द्याः पुंसां परिगमनतस्त्वां पुनन्त्येव सद्यः। पृथ्वीमेनां स किल विहरन्नात्तदीक्षः प्रजासु बन्धुस्नेहात्समरविमुखो लागली याः सिषेवे ॥ ४९ ।। अन्वयः- प्रजासु बन्धुस्नेहात् समरविमुखः, आत्तदीक्षः, एनां पृथ्वी विहपाश्र्वाभ्युदये....१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org