________________
[पार्धाभ्युदये
राजनशब्दादपत्यार्थे यः । ये परतश्च 'येऽडो' इति टिखाभावः । प्रतिपक्षिणां क्षत्रियाणामित्यर्थः । 'मूर्धाभिषक्तो राजन्यः बाहुजः क्षत्रियो विराट्' इत्यमरः । मुखानि आननानि अभ्यवर्षत् अभिमुखं वृष्टिं चकार । निशितेषुशतपातैस्तेषां प्रतिपक्षिणां क्षत्रियाणामाननानि चिच्छेदेति भावः। तां कुरुभूमि प्रतिभयभटस्तम्भन भयङ्करयोद्धणामभिमुखागमनस्य प्रतिबन्धनैः। प्रतिभयाः भयङ्कराश्च ते भटाः योद्धारश्च प्रतिभयभटाः। ' भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु' इत्यमरः । तेषां स्तम्भनः तेषामभिमुखमभियानस्य प्रतिबन्धैः क्षात्रं क्षत्रियजातिविषयकं सहज तेजः बलं प्रभावं पराक्रम वा। 'तेजः पराक्रमे दीप्तौ प्रभावे बलशुक्रयोः' इति विश्वलोचने । सूचयन्ती पिशुनयन्तीं। दर्शयन्तीमित्यर्थः । भुवनविदितां भूमण्डलप्रसिद्धां । भुवनेन तास्थ्यात्तन्निवासिभिर्जनैः विदितां ज्ञातां । 'विदितं ज्ञाते' इति विश्वलोचने । वीरक्षोणी वीरभुवं । वीरोत्पत्तिस्थानं रणभूमि वेत्यर्थः । क्षणेन क्षणमात्रेण व्यतीयाः उल्लङ्गय । तस्याः भयङ्करत्वात्तत्र चिरं मा तिष्ठेति भावः।
In a moment, you should pass over that land of warriors, wellknown in the whole world, indicating the valour of the military tribes (i. e. Ksatriyas) by the acts of checking the advance (or progress ) of formidable warriors, where the warrior armed with the Gandiva bow (i. e. Arjuna ) poured ( discharged ) volleys of hundreds of sharpened arrows on the faces of warriors, like you, pouring showers of rain over the lotuses.
पुण्यक्षेत्रं तदपि भजनीयं हि तस्योपकण्ठे
यस्मिन्सोऽस्थात्तपसि हलभूत प्रात्तराजर्षिवृत्तः। शाङ्गिण्यस्तं गतवति महीनिःस्पृहो मन्मथीयां
हित्वा हालामभिमतरसां रेवतीलोचनाकाम् ॥४८॥ अन्वयः- शाह्मिणि अस्तं गतवति सः महीनिःस्पृहः, प्रात्तराजर्षिवृत्तः अभिमतरसां रेवतीलोचनाङ्कां मन्मथीयां हालां हित्वा यस्मिन् तपसि अस्थात् तत् तस्य उपकण्ठे पुण्यक्षेत्रं अपि हि भजनीयम् । .. पुण्यक्षेत्रमित्यादि । शाझिणि नारायणे । शृङ्गस्य विकारः धनुः शाङ्गम्। तदस्यास्तीति शाी 'अतोऽनेकाचः' इति इन् । अस्तं विलयं गतवति प्राप्तवति । यद्भावा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org