________________
द्वितीयः सर्गः ]
१९१
सञ्जातभयाः पापभीताः । पाण्डोः पाण्डुराजस्य पुत्राः तनयाः सशङ्कं शङ्कया भीत्या सहितं यथा स्तात्तथा । ' शङ्का त्रासे वितर्के च' इति विश्वलोचने । प्रतियुयुधिरे प्रतियुध्यन्ते स्म । तत् क्षत्रप्रधनपिशुनं क्षात्रसङ्गामसूचकम् । क्षत्राणां क्षत्रियाणां प्रधनं युद्धं क्षत्रप्रधनम् ।' प्रधनं दारुणे सङ्ख्ये ' इति विश्वलोचने । तस्य पिशुनं सूचकं क्षत्रप्रधनपिशुनं । 'पिशुनो नारदे पुंसि खलसूचकयोस्त्रिषु' इति विश्वलोचने । कौरवं कुरुराजसत्कं । कुरूणामिदं कौरवं । कुरुराजस्वामिकमित्यर्थः । क्षेत्रं विषयं । भजेथाः । कुरुक्षेत्रं प्रयायाः इत्यर्थः ।
I
1
1
You should betake yourself (or have recourse) to the region of Kurus, indicative of the battles fought by the Kshatriyas whereby many rivers were rendered turbid by the blood of the armies of the Kurus, and where the sons of Pandu, carrying weapons achieving success, made a counter-attack through fear caused by their being afraid of the sin incurred by slaughtering (the enemies).
वीरक्षोणीं भुवनविदितां तां क्षणेन व्यतीयाः
क्षात्रं तेजः प्रतिभयभटस्तम्भनैः सूचयन्तीम् । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ४७ ॥
अन्वयः - यत्र धारापातैः कमलानि त्वं इव गाण्डीवधन्वा शितशरशतैः राजन्यानां मुखानि अभ्यवर्षत् तां प्रतिभयभटस्तम्भनैः क्षात्रं तेजः सूचयन्तीं भुवनविदितां वीरक्षोणीं क्षणेन व्यतीयाः ।
,
वीरक्षोणीमित्यादि । यत्र कुरुक्षेत्रे धारापातैः जलधाराप्रवर्षणैः । धाराणां जलधाराणां पाताः प्रवर्षणानि धारपाताः । तैः कमलानि नलिनानि त्वं इव भवानिव गाण्डीवधन्वा अर्जुनः । गाण्डीवं पर्वाऽस्यास्तीति गाण्डीवं । ' गाण्डयादिभ्यः इति मत्वर्थीयो वत्यः । गाण्डीवं पर्ववदित्यर्थः । गाण्डीवं धनुरस्य गाण्डीवधन्वा । 'धनुः खौ ' इति बसे खौ धनुः शब्दे प्रयोक्तव्येऽपि केषाञ्चिन्मतेन तस्य वैकल्पिकत्वाद्वसाद्धनुःशब्दान्तादन् । शितशरशतैः निशितेषुसमूहैः । शिता तीक्ष्णाच ते शराः बाणाश्च शितशराः। तेषां शतानि । तैः । शतशब्दोऽत्र बाहुल्यवचनः । ' शो तनूकरणे ' इत्यस्मात्किति क्ते परतः छश्च वा ' इति इत् । शितस्तेजित इत्यर्थ । राजन्यानां क्षत्रियाणां । राज्ञः अपत्यं राजन्यः | 'जातौ राज्ञः इति जातौ गम्यमानायां
1
८
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org