SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १९० [ पार्श्वाभ्युदये च्छायारूपया स्वप्रतिमूर्त्या तं देशं प्रविशन्निति भावः । सः भवान् सः त्वं देशातिथ्यं ब्रह्मावर्तजनपदस्यातिथित्वं व्रजतु गच्छतु । ब्रह्मावर्तजनपदस्यातिथिर्भवतु भवानिति भावः । यद्वा आतिथ्यं अतिथिसत्कारं व्रजतु अधिगच्छतु अनुभवतु वा । धातूनामनेकार्थत्वादर्थभेदः । Then, in this way, you, beholding various beautiful countries with eagerness, pouring showers of rain everywhere in the fields of corn, on the mountains, in the vicinity of rivers, and on the dry land (terra firma) there, and plunging into the Brahmavarta country by your shadow, should enjoy hospitality afforded by the country. यस्मिन्नद्यः क्षतजकलुषाः कौरवीणां चमूनां प्रावर्तन्त प्रतियुयुधिरे यत्र चामोघशस्त्राः । पाण्डोः पुत्राः प्रतिहननतः पापभीताः सशङ्कं क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ॥ ४६ ॥ अन्वयः - यस्मिन् कौरवीणां चमूनां क्षतजकलुषाः नद्यः प्रावर्तन्त यत्र च अमोघशस्त्राः प्रतिहननतः पापभीताः पाण्डोः पुत्राः सशङ्कं प्रतियुयुधिरे तत् क्षत्रप्रधनपिशुनं कौरवं क्षेत्रं भजेथाः । 1 , यस्मिन्नित्यादि । यस्मिन् कुरुक्षेत्रे । कौरवीणां कुरुस्वामिकानां । कुरूणामियं कौरवी । अणू ङीच स्त्रियाम् । तासाम् । कुरूणां राजा कुरुः । तस्येयमिति कौरवी । तासाम् । ' पुरुषद्वयञ्मगधकलिंग सूरमसादण्' इति राजार्थस्थाणः ' उपचोलादिभ्यः -' इत्युप् । कुरुसम्बन्धिनीनां वा । यद्वा कुरोरपत्यानि कुरवः । 'पुरुषद्वयञ् इत्यपस्यार्थस्याणः 'उपचोलादिभ्यः' इत्युप् । कुरूणां निवासः जनपदः कुरवः 'जनपद उस्इति निवासार्थस्य त्यस्योस् । कुरुनिवासिनमित्यर्थः । ' कुरुर्नृपान्तरे भक्ते कुरुः श्रीकण्ठजाङ्गले ' इति विश्वलोचने । चमूनां सेनानां । क्षतजकलुषाः लोहिताविलाः क्षताद्मणाजातं क्षतजं । तेन कलुषाः आविलाः क्षतजकलुषाः । ' कलुषं किल्विषे क्ली. माविले कलुषं त्रिषु' इति विश्वलोचने । नद्यः सरितः । प्रावर्तन्त प्रादुरभूवन् । यत्र च यस्मिंश्च कुरुक्षेत्रे अमोघशस्त्राः सफलायुधाः । अमोघानि सफलानि शस्त्राणि आयुधानि येषां ते अमोघशस्त्राः । ' मोघस्तु निष्फले दीने ' इति विश्वलोचने । प्रतिहननात् प्राणिहिंसनात् पापभीताः प्राणिहिंसाजनितपापाद्भीताः । पापात् किल्बिषात् भीताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy