________________
द्वितीयः सर्गः ]
१८९
अध्वानं अलं गामी अध्वनीनः । ' खश्चाध्वानं च ' इति खः । त्वं अनतिचिरयन् । अतिचिरं करोति अतिचिरयति । ' मृदोध्वर्थे णिज्बहुलं ' इति णिच् । न अतिचि - रयतीति अनतिचिरयन् । ईषच्चिरयन्निति तात्पर्यम् । अल्पकालं तत्र तिष्ठन्नित्यर्थः । प्रयायाः गच्छ ।
You, making your round form the object of the glances cast by the ladies of the city of Dasapur, as long as the arrows, leading to victory, of the god of love, moving fast on that way where you would be gaining the fruit of your journey fortunately in full, should proceed on without making any delay.
रम्यान्देशानिति बहुविधान्सादरं वीक्षमाणः देशातिथ्यं व्रजतु स भवांस्तत्र तत्राऽपि वर्षन् । सस्यक्षेत्रे गिरिषु सरितामन्तिके च स्थले च
ब्रह्मावर्ते जनपदमथ च्छायया गाहमानः ॥ ४५ ॥
अन्वयः
अथ इति बहुविधान् रम्यान् देशान् सादरं वीक्षमाणः, तत्र तत्र अपि सस्यक्षेत्रे, गिरिषु, सरितां अन्तिके च स्थले च वर्षन्, ब्रह्मावर्ते जनपदं छायया गाहमानः सः भवान् देशातिथ्यं व्रजतु ।
रम्यानित्यादि । अथ अनन्तरं । 'अथाऽथो च शुभे प्रश्ने साकस्यारम्भसंशये । अनन्तरेऽपि ' इति विश्वलोचने । इति एवं प्रोक्तप्रकारेण बहुविधान् नानाप्रकारान् । बहूव्यः विधाः प्रकाराः येषां ते बहुविधाः । तान् । 'विधा प्रकारे ऋद्धौ च गजान्ने वेतने विधौ ' इति विश्वलोचने । रम्यान् मनोहरान् देशान् जनपदान् सादरं प्रीतिसहितं यथा स्यात्तथा 'झि: सुब्- ' इति इसः । ' हेऽकाले' इति सहस्य सः । वीक्षमाणः अवलोकयन् । वीक्षते इति वीक्षमाणः । तत्र तत्र अपि तस्मिंस्तस्मिन्नपि । वीप्सायां द्विः । सस्यक्षेत्रे केदारादौ गिरिषु भूधरेषु सरितां नदीनां अन्तिके च समीपदेशे च स्थले च अकृत्रिमायां भूमौ च वर्षन् वृष्टिं कुर्वन् ब्रह्मावर्त ब्रह्मावर्त - नामधेयं जनपदं देशविशेषं । ' सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरं । तं देवनिर्मित देश . ब्रह्मावर्त प्रत्यक्षते ' इति मनुः । ' पुमाञ्जनपदो देशे तथा जनपदो जने ' इति विश्वलोचने । छायया आतपाभावरूपया प्रतिमूर्त्या । ' छाया स्वादातपाभावे ' इति विश्वलोचने । गाहमानः प्रविशन् । आकाशप्रदेशस्थितत्वात्स्वरूपेणावगाहनासम्भवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org