________________
द्वितीयः सर्गः ]
१८७
and variegated lustre shooting up from the eyes owing to their lifting up of the eye-lashes, should proceed on speedily from that place.
गच्छन्मार्गे प्रियमुपहरेः प्राणनाथोपयानप्रत्याश्वासाद्वियति सुदृशां कृष्णशारोदराणाम् । लक्षीकुर्वन् पथिकवनितालोचनोल्लासकानां कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बम् ॥ ४३ ॥
अन्वयः
वियति मार्गे गच्छन् कृष्णशारोदराणां कुन्दक्षेपानुगमधुकर श्रीमुषां पथिकवनितालोचनोल्लासकानां आत्मबिम्बं लक्षीकुर्वन् सुदृशां प्राणनाथोपयानप्रत्याश्वासात् प्रियं उपहरेः ।
<
3
गच्छन्नित्यादि । वियति आकाशे मार्गे अध्वनि गच्छन् प्रयान् कृष्णशारोदराणां । कृष्णं च तत् शारं च कृष्णशारं । ' वर्णो वर्णैः ' इति यसः । कृष्णशारं उदरं मध्यभागः येषां ते । तेषाम् । " कृष्णसारोदराणां । कृष्णसारस्येव मृगविशेषस्येव उदरं यासां तासाम् । — कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोद्दिषाः इत्यमरः । तलोदरीणामित्यर्थः " इति यद्योगिराजेनोक्तं तन्न समीचीनं, तलोदरीणामित्यस्य घटाकारोदरीणामित्यर्थकत्वात्काव्य सौन्दर्यहानेः । कुन्दक्षेपानुगमधुकर श्रीमुषां । कुन्दानि माध्यकुसुमानि । ' माध्यं कुन्दं ' इत्यमरः । कुन्दानि कुन्दकुसुमानि । पुष्पमूले बहुलं इति पुष्पत्यस्योस् । तेषां क्षेपः इतस्ततश्चलनं । तमनुगच्छन्तीति तस्याऽनुगाः अनुसारिणो वा कुन्दक्षेपानुगाः । ते च ते मधुकराः मधुलिहश्च । तेषां श्रीः सौन्दर्ये । तां मुष्णन्तीति । क्विप् । तेषाम् । समीरणनुन्नकुन्द कुसुमक्षेपानुसारिभ्रमरदेशीयानामित्यर्थः । पथिकवनितालोचनोल्लासकानां । पथिकाः पन्थान प्रयान्तः । ' पथष्ठट्' इति यात्यर्थे ठट् । पथिकानां प्रोषितत्वात्पथि चरतां वनिताः स्त्रियः पथिकवनिताः तासां लोचनानि नयनानि । तेषां उल्लासकाः बिलासा : प्रक्षेपाः प्रभाः वा । तेषाम् तास वा । उल्लासः एवं उल्लासकः । तेषाम् प्रोषितभर्तृककामिनीनयनप्रभाणामित्यर्थः । आत्मबिम्बं नैजं मण्डलाकारं शरीरं लक्षीकुर्वन् गोचरतां नयन् । अलक्षं लक्षं करोतीति लक्षीकुर्वन् । सुदृशां प्रोषितभर्तृकाणां कामिनीनां प्राणनाथोपयानप्रत्याश्वासात् स्वप्रियकर प्रत्यागमनविश्वासमुत्पाद्य । प्राणनाथस्य प्रियकरस्य उपयानं प्रत्यागमनं । तस्मिन् प्रत्याश्वासः विश्वासः । तस्मात् । तमुत्पाद्येत्यर्थः । ' प्यखे कर्माधारे ' इति प्यान्तस्य खे कृते कर्मणः
Jain Education International
For Private & Personal Use Only
3
www.jainelibrary.org