SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये म्प्रतिशब्दख्यातिपश्चाद्यथायुगपत्सम्पत्साकल्यान्ते ' इति ईबर्थे हसः । तीरभाजां तीरप्रदेशे विरूढानां । तीरं भजते इति तीरभाक् । तेषां तीरभाजां । ' भजो ण्विः ' इति सुपि वाचि भजोविः । उत्फुल्लानां सञ्जातकुसुमानां । 'समुदः ' ' इति 'त्रिफला विशरणे' इत्यस्य धोः फुल्लो निपातितः उदः परत्वात्तस्य । ततमधुलिहां प्रसृतभ्रमराणां । तताः प्रसृताः मधुलिहः मधुकराः यासु ताः । तासाम् । मधु क्षौद्रं लेढीती मधुलिट् । क्विप् । 'विसृतं विस्तृतं ततं' इत्यमरः । लतानां वल्लरीणां । ' व्रततिर्वल्लरी लता' इति धनञ्जयः । मुक्तधारं । मुक्ताः अप्रतिवध्दाः धाराः जलसम्पाताः यस्मिन् कर्मणि तत् । सीतापूरं सीता: हलकृष्टाः भूमयः यावता जलेन पूर्णाः भविष्यन्ति तावत् । वर्षेयत्वेऽ त्योत्खं वा' इति वृष्टिप्रमाणेऽर्थे कर्मणि वाचि पूरयतेर्णम् । 'सीता तु जानकीव्योमगङ्गालाङ्गलवर्त्मसु ' इति विश्वलोचने । प्रवर्षन् वृष्टिं विदधानः ततः तु तस्मात् प्रदेशात् तदनन्तरं वा । पक्ष्मोत्क्षेपात् । पक्ष्मणां नेत्रलोम्नां उत्क्षेपः उन्नमनं पक्षमोत्क्षेपः । तस्मात् । तावत्र का । नेत्रलोमोन्नमनाद्धेतोरित्यर्थः । ' पक्ष्म लोचनलोमनि । पक्ष्म सूत्रादिसूक्ष्मांशे पक्ष्म स्यात्केशरेऽपि च' इति विश्वलोचने । उपरिविलसत् कृष्णशारप्रभाणां । उपरि लोचनलोम्नामुत्क्षेपादूर्ध्वभागे विलसन्त्यः कृष्णशाराः प्रभाः यासां ताः । तासां । दशपुरवास्तव्यानां स्त्रीणामित्यर्थः । कृष्णाश्च ताः शाराः कृष्णरक्तसिताश्च कृष्णशाराः । ' कृष्ण रक्तसिताः शाराः' इति यादवः 'शारस्तु शत्रुले वाते' इति विश्वलोचने । 'वर्णो वर्णैः' इति सः । शारशब्दादेव कृष्णवर्णत्वसिद्धेः पुनरपि कृष्णपदोपादानं दोषावहमिति चेत् न, तस्य कृष्णवर्णप्राधान्यप्रतिपादनार्थत्वात् । मानात् मानं प्राप्य । मानं सम्मानं पूजां वा प्राप्येत्यर्थः । ' प्यखे कर्माधारे' इति प्राप्येति प्यान्तस्य खे कर्मणि का । ' मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे । मानः स्यादपि पूजायां ' इति विश्वलोचने । जातहार्दः जातानन्दः । जातं हार्दे प्रेम आनन्दो वा यस्य सः । हृदयस्य भावः हार्दम् | हार्दै प्रेम आदन्दः । ' प्रेमा ना प्रियता हार्दै प्रेम स्नेहः इत्यमरः | 'हृदयपुरुषाद से' इति भावेऽण् । अणि च ' हृदयस्य हृल्लेखाण्यालासे ' इति हृदादेशः । प्रोषितस्वभर्तृप्रत्यागमनकालजिज्ञासया मेघागमनविलोकितुकामाभिर्भवदवलोकनजनितसन्तेाषाभिर्विहितात्सम्मानाजातामन्दानन्दो भवानित्यर्थः । लघु शीघ्रं व्रज याहि । १८६ Pouring incessantly heavy showers of rain in the forest on the creepers,grown on the northern bank, bearing full-blown flowers, having bees diffused in them, so as to fill the furrows cut in the soil by ploughs to their utmost capacity, you, beccme delightful on account of your being honoured by the women (of Dasapur), with their dark Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy