SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १८५ J 'शीलेऽजातो णिन्' इति शीलार्थे णिन् । प्रजवि पवनादूतवचीचयानां । प्रकृष्टः जवः वेगः प्रवः । ' वेगे जवो वेगिनि वाच्यवत्' इति विश्वलोचने । 'अतोऽनेकाचः ' इत्यस्त्वर्थे इन् जवशब्दस्यानेकत्वात् । प्रजवी वेगवश्चासौ पवनश्च प्रजविपवनः । तेन वायुना उद्धूताः उत्कम्पिताः वीचीनां चयाः समूहाः यत्र । तेषां वारां । ' प्रजवी जवनो जवः इत्यमरः । परिचितभ्रूलताविभ्रमाणां । भ्रुवः लताः इव । 'व्याघ्रादिभिरुपमेयोऽतद्योगे ।' इति शब्दस्योपमेयभूतस्योपमानभूतलताशब्देन सः, सामान्यस्यायोगात् । भ्रूलतानां विभ्रमाः विलासाः भ्रूलताविभ्रमाः । परिचिताः विज्ञाताः अभ्यस्ताः वा भ्रूलताविभ्रमाः याभिः ताः तासाम् । यद्वा परिचिताः सर्वजनविज्ञाताः भ्रूतानां विभ्रमाः इव विभ्रमाः यासां ताः। तासाम् । ‘ईबुपमानपूर्वस्य सुखं गतार्थत्वात् इति खं । वारां सलिलानां ' वारि कं पयोऽम्भोऽम्बु पाथोऽणै सलिलं जलं ' इति धनञ्जयः । पुण्यां मनोज्ञां । ' पुण्यं तु सुकृते धर्मे त्रिषु मध्यमनोज्ञयो:' इति विश्वलोचने । लीलां विलासं पश्यन विलोकयन् तां चर्मण्वतीं नदीं उत्तीर्य उल्लङ्घ्य व्रज गच्छ । 2 Having thus sported in the water there for a moment like a celestial elephant ( Airavata ) you, moving on the heavenly way, having crossed her, proceed on seeing the charming sports of the waters possessing multitudes of waves roused up by forcible wind and wellacquainted with the movements like those of the creeper-like eyebrows. तस्याः सिन्धोरनुवनमुदक्तीरभाजां लतानामुत्फुल्लानां ततमधुलिहां मुक्तधारं प्रवर्षन् । सीतापूरं व्रज लघु ततो जातहार्दस्तु मानात पक्ष्माक्षेपादुपरिविलसत् कृष्णशारप्रभाणाम् ॥ ४२ ॥ तस्याः सिन्धोः उदक् अनुवनं तीरभाजां उत्फुल्लानां ततमधुलिहां लतानां मुक्तधारं सीतापूरं प्रवर्षन् ततः तु पक्ष्मोत्क्षेपात् उपरिविलसत्कृष्णशार प्रभाणां मानात् जातद्दार्दः लघु ब्रज । अन्वयः - -- तस्या इत्यादि । तस्याः सिन्धोः पूर्वत्र श्लोके वर्णितायाः चर्मण्वतीसञ्ज्ञकाया नद्याः उदक् उतरस्यां दिशि । उदीच्या अञ्चत्यन्तत्वाद्दिशि वर्तमानत्वादीचन्ताद् दिग्भ्यो वाकेब्भ्योऽस्तात् दिग्देशकाले ' इतिसूत्रविहितस्याऽस्तातः 'वैनोऽदूरेऽकायाः' इतिसूत्रविहितस्य चैनस्य ‘अञ्चेरुप्' इत्युप् । अनुवनं वने । 'झिः सुब्व्यृद्ध्यृद्ध्यर्थाभावातीत्यस - Jain Education International For Private & Personal Use Only 6 www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy