SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ १८२ [पार्धाभ्युदये light, of the river ( Charmanvati), though broad, looking thin on account of its being at a long distance, as a silken white uppergarment of the earth possessing blue colour in the middle part, when, in the vicinity there, you, possessing complexion similar to that of Rahu, would be taking in water. विद्युद्वीविततवपुर्ष कालिकाकर्बुराङ्ग त्वामामन्द्रध्वनितसुभगं पूर्यमाणं पयोभिः । क्रीडाहेतोः शितिमिव दृर्ति स्वर्वधूभिर्विमुक्तां प्रेक्षिष्यन्ते गगनगतयो नूनमावज्यं दृष्टीः ॥ ३९ ॥ अन्वयः- विद्युद्वीविततवपुषं कालिकाकर्बुराग, आमन्द्रध्वीनतसुभगं, पयोभिः पूर्यमाणं त्वां स्वर्वधूभिः क्रीडाहेतोः विमुक्ता सिति दृति इव गगनगतयः दृष्टीः आवयं नूनं प्रेक्षिष्यन्ते। विद्युदित्यादि । विद्युद्वविततवघुषं । विद्युत् सौदामन्येव वर्षी नदी विद्युद्वर्षी । वर्धते दीर्घाभवति चर्मरज्जुत्वाद्वी' इति क्षीरस्वामी । तया विशेषेण ततं व्याप्तं वपुः शरीरं यस्य सः । तम् । विद्युद्वरत्रासंव्याप्तदेहमित्यर्थः । 'नद्धी वर्षी वरत्रा स्यात्' इत्यमरः । कालिकाकर्बुराङ्गं । कालिकया कायेन कर्बुरं चित्रमङ्गं शरीरं यस्य सः ।तम् । 'चित्रं किरिकल्माषशबलैताश्च कर्बुरे' इत्यमरः । यद्वा कालिकेव रोमावलीव वायसीव, मेघजालमिव, धूम इव, नवनीरद इव वा कर्बुरमङ्गं यस्य सः । तम् । कृष्णवर्णशरीरमित्यर्थः । 'कालिका चण्डिकायां स्याद्योगिनीभेदकार्ण्ययोः । पश्चाद्दातव्यमूल्ये च पटोलकलतान्तरे। रोमालीधूमरीमांसीकाकीवृश्चिकपत्रके। घनावलावलं धूमप्रभेदे नवनीरदे।।' इति विश्वलोचने । आमन्द्रध्वनितसुभगं ईषद्गम्भीरस्तनितमनोहरं । आ ईषत् मन्द्रं गम्भीरं आमन्द्रं । 'मन्द्रस्तु गम्भीरे' इत्यमरः । आमन्द्रध्वनितेन सुभगः । तम् । पयोभिः सलिलैः पूर्यमाणं भ्रियमाणं । पूर्यते इति पूर्यमाणस्तम् । जलमात्मसात्कुर्वाणमित्यर्थः । त्वां भवन्तं । स्वर्वधूभिः स्वर्गाङ्गनाभिः क्रीडाहेतोः क्रीडार्थ । हेतुशब्दप्रयोगे ता । विमुक्तां काचितां शिक्यिता वा शिति मेचकवर्णाम् । कृष्णामित्यर्थः । 'शिती धवलमेचको' इत्यमरः । 'शिञ् निशाने, मेचकः कृष्णः ' इति क्षीरस्वामी । हति इव जलोदञ्चनं चर्ममयं पात्रं इव । 'मोट, पखाल' इति महाराष्ट्रयाम् । गगनगतयः नभश्चराः सिद्धविद्याधरादयः। विहायसि गतिर्गमनं येषां ते । ' अवयों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy