SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १८३ बहुव्रीहिर्व्यधिकरणो जन्मायुत्तरपद : ' ( काव्या. सू. ५ - २ - १९ ) इति वामनः । दृष्टीः नयनानि आवर्ज्य परिवर्त्य । नेत्रपरिवर्तनं कृत्वेत्यर्थः । नूनं अवश्यं । 'नूनमवश्यं निश्चये द्वयम्' इत्यमरः । प्रेक्षिष्यन्ते अवलोकयिष्यन्ति । अम्बरचारिणस्ते धूम्रवर्णत्वात्खेचरास्त्वां स्वदृष्टीः परिवर्त्यवलोकयन्तः कूपोदर | जलादञ्चनत्रर्ममयपात्रमिव सम्भावयेयुरिति भावः । The sky-wanderers would verily be looking upon you, with your body encircled with a leathern thong in the form of lightning, with your body darkened like smoke, charming owing to your rumbling sounds, absorbing water, as a black leathern bag meant for drawing water sustained (between heaven and earth) by the heavenly women for the sake of making sport. अध्यासीने त्वयि कुवलयश्यामभासि क्षणं वा सिन्धोरस्याः शशधरकरस्पर्धिनं तत्प्रवाहम् । द्रक्ष्यन्त्यग्रा ध्रुवमनिमिषा दूरमावर्ज्य दृष्टीः एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४० ॥ अन्वयः. अस्याः सिन्धोः शशधरकरस्पर्धिनं तत्प्रवाहं कुवलयश्यामभासि त्वयि क्षणं वा अध्यासीने स्थूलमध्येन्द्रनीलं भुवः एकं मुक्तागुणं इव अनिमिषाः दृष्टीः दूरं आवर्ज्य अग्रात् ध्रुवं द्रक्ष्यन्ति । - अधीत्यादि । अस्याः वर्ण्यविषयभूतायाः सिन्धोः चर्मण्वत्याख्यायाः निम्नगायाः शशधरकरस्पर्धिनं शशधरस्य क्षपाकरस्य करैः किरणैः स्पर्धते साम्यमातनुते इति शशधरकरस्पर्धी । तम् | क्षपाकरकराकारसदृशमित्यर्थः । तत्प्रवाहं । सः सर्वजन - प्रसिद्ध श्वासौ प्रवाहः स्रोतश्च तत्प्रवाहः । तम् । कुवलयश्यामभासि नीलोत्पलनीलवर्णे । कुवलयं नीलोत्पलम् । कुवलयस्याब्जत्वसामान्येऽपि सामान्यस्य विशेषवृत्तेः नीलोत्पलत्वमर्थतो विज्ञेयम् । 'स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ' इत्यमरः । कुवलयमिव श्यामा नीला कुवलयश्यामा । ' सामान्येनोपमानं ' इति सः । कुवलयश्यामा भाः रुक् यस्य कुवलश्यामभाः । तस्मिन् । ' भाः प्रभावे रुचि स्त्रियाम् ' इति विश्वलोचने । त्वयि भवति क्षणमिव क्षणमात्रकालं यावत् अध्यासीने आस्थित सति । — कर्मैवाधेः शीङ्कस्थाऽऽसः इत्यधिपूर्वस्य शीङ आधारस्य कर्म Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy