________________
द्वितीयः सर्गः ]
त्वय्यभ्यर्णे हरति सलिलं तत्र राहोस्सवर्णे नूनं ज्योत्स्नाविसरविमलं तर्कयेयुर्नभोगाः । मध्ये नीलं सितमिव दुकूलोत्तरीयं पृथिव्याः तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ॥ ३८ ॥
अन्वयः -- राहोः सवर्णे त्वयि तत्र अभ्यर्णे सलिलं हरति ( सति ) तस्याः सिन्धोः पृथुं अपि तनुं ज्योत्स्नाविसरविमलं प्रवाहं नभोगाः पृथिव्याः मध्ये नीलं सितं दुकूलोत्तरीवं इव नूनं तर्कयेयुः ।
6
१८१
6
,
6
$
त्वयीत्यादि । राहोः विधुन्तुदस्य । तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः इत्यमरः । रहयति चन्द्रार्काविति राहुः । सवर्णे समानकान्तौ । समानस्य धर्मादिषु ' इति समानस्य सादेशः । समानः वर्णः कान्तिः यस्य सः । तस्मिन् । अथ पुंस्येव वर्णः स्यात्स्तुतौ रूपयशोगुणे । रागे द्विजादौ मुक्तादौ शोभायां चित्रकम्बले || ' इति विश्वलोचने । त्वयि भवति । तत्र चर्मण्वतीनद्यां अभ्यर्णे समीपप्रदेशे । नदीसमीपप्रदेशमागत्येत्यर्थः । सलिलं जलं हरति आत्मसात् कुर्वति सति । हरतीति हरन् । तस्मिन् । तस्याः चर्मण्वत्याः सिन्धोः नद्याः । सिन्धुरब्धौ नदे देशभेदे ना सरिति स्त्रियाम्' इति विश्वलोचने । पृथुं अपि महान्तं अपि दूरभावात् दूरदेशस्थितत्वात् तनुं स्वल्पशरीराकारतया प्रतिभासमानं ज्योत्स्ना विसरविमलं चन्द्रिकाप्रसरनिर्मलं । ज्योत्स्नायाः चन्द्रिकायाः विसरेण विसरवद्वा विमलं विगतमलं । निर्मलमित्यर्थः । द्वितीयपक्षे ' सामान्येनोपमानं ' इति बसः । विसरः प्रसरे पुंसि विसरो निकुरम्बके ' इति विश्वलोचने । प्रवाहं स्रोतसं नभोगाः खेचराः । नभसा गच्छन्तीति नभोगाः विहायश्वराः । खगाः इत्यर्थः । ' गमेः खच्खड्डाः ' इति गमेर्ड: । पृथिव्याः भूमेः मध्ये मध्यदेशे नीलं नीलवर्ण सितं धवलवर्ण दुकूलोत्तरीयं क्षौमसंव्यानं सूक्ष्मवासरूपं वा संव्यानं । 'दुकूलमद्वयोः क्षौमे दुकूलः सूक्ष्मवाससि ' इति विश्वलोचने । दुकूलं दुकूल एव वोंत्तरीयं दुकूलोउत्तरीयम् । " संव्यानमुत्तरीयं च इत्यमरः । इव वा । नूनं निश्चयेन तर्क्रयेयुः सम्भावयेयुः । अत्र नदीप्रवाहस्य नीलमध्यमभागेन सितोत्तरीयेण सादृश्यं ज्योत्स्नाविसरविमलप्रवाहपतितमेघप्रतिबिम्बत्वादित्यवसेयम् ।
,
The sky-wanderers would verily regard the current, as transparent as (or transparent on account of) the diffusion of the moon
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org