________________
१८०
[ पार्श्वाभ्युदये
<
वर्णस्य कान्तेश्चौरः तदनुज्ञामन्तरेण तत्कान्तिग्राहकत्वादत्र मेघस्य चौरत्वम् । नारायण सवर्णः इत्यर्थः । तस्मिन् | त्वयि भवति । जलं चर्मण्वतीसलिलं आदातुं गृहीतुं अवनते निचरागते तस्याः चर्मण्वत्याः मध्येजलं जसमध्यदेशे । ' पारेमध्येऽन्तस्तया ' इति तान्तेन हसः मध्यशब्दस्यैत्वनिपातश्च । मध्यं जलस्य मध्येजलं । जलमध्यभागे इत्यर्थः । उपचिताम्भोनिकाये सञ्चितवाराशौ । सञ्चितजलसमूहे इत्यर्थः । ' वार्वारि कं पयो - भोऽम्बु पाथोऽ सलिलं जलं ' इति धनञ्जयः । ' निदिग्धोपचिते... ( समे )' इत्यमर: ' निकायस्त्वात्मवेश्मनोः । सधर्मिनिवहे लक्ष्ये सहतानां च मेलके ' इति विश्वलोचने । उपचितानां अम्भसां सलिलानां निकायः संहतिः उपचिताम्भोनिकायः । तस्मिन् । कृष्णाजिनमदहरां कालवर्णचर्मगर्व खर्वयन्तीम् । कृष्णं कालायसवर्णत्वात्कालवर्णच तदाजनं चर्म च कृष्णाजिनं । तस्य मदं गर्व हरतीति कृष्णाजिनमदहरा । ताम् । समग्रां सम्पूर्ण छायां प्रतिबिम्बं । छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिविम्ब्रेऽर्क्रक्रान्तायां तथा पङ्क्तौ च पालने ' इति विश्वलोचने । मुहूर्त क्षणमात्रकालं यावत् । सन्दधाने प्रयच्छति सति । तज्जलनिकाये स्वात्मनि प्रतिबिम्बिते सतीत्यर्थः। तस्याः नद्याः ‘चर्मण्वती ' इति अभिधानं फलकवतीति नामधेयं । पयःपतितत्वदाकारप्रतिबिबस्य वर्णाकृत्यादिना फलक तुल्यत्वात्त्वत्प्रतिविम्बवत्यास्तस्याश्चर्मण्वतीति नामधेयं सुतरां अतिशयेन युक्तं योग्यं समीचीनं वा । युक्तरूपमित्यर्थः । मन्ये जानामि । चर्म फलकं अस्याः अस्तिति चर्मण्वती । 'चर्मण्यत्यष्ठीच्चक्रीवत्कक्षीव द्रुमण्क्त् ' इति नदीनाम्नि चर्मणः परस्य मतोर्नुडागमो निपातितः मृदन्तस्य च नस्य खम् । 'अट्कुप्वाङ्नुम्शर्व्यवायेऽपि' इति नस्य णः । फलकस्य चर्ममयत्वाच्चर्मेति सञ्ज्ञा । यद्वा यथा चर्ममयत्वात्फलकस्य चर्मसञ्ज्ञाविधानं तथा चर्ममयत्वात् ' चर्मोदरे पूरे:' इति सूत्रविहितणमन्तस्य चर्मपूरमित्यस्य ' चर्म पूरयित्वा ' इत्यर्थस्य दर्शनाच्च चर्मशब्दस्य हृत्यर्थकत्वमप्यत्र सम्भवति । तेन चर्मण्वतीत्यस्य दृतिमतीत्यर्थो ग्राह्यः । तत्र चर्मण्वतीसरिति कालवर्णविकृतभवच्छरीरप्रतिबिम्बदर्शनात्प्रतिविम्बितभवच्छरीरस्य च हतितुल्यत्वात्तस्याश्चर्मण्वतीति सञ्ज्ञाकरणं समीचीनमिति शम्बरासुराभिप्रायः ।
In that river there when you, the spoiler of the complexion of Krsna, descended to take up her water, would be having for a moment your reflection in full, dissipating the pride of the hide of a blackantelope, in the water of her pool formed by accumulated water, I would think that the name Charmanvati given to that river is absolutely deserving.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org