________________
द्वितीयः सर्गः]
पूज्यं देवैरित्यादि । देवैः दिविभवैः। दीव्यन्तीति देवाः वा । पचाद्यच् । अमेरित्यर्थः । पूज्यं अपचेयं । पूजाहमित्यर्थः । पूजां अपचिति अर्हतीति पूज्यः । तम् । अजं जन्मरहितम् । न विद्यते जा उत्पत्तिर्यस्य सः अजः। 'जः स्याजविनि जोद्भूतौ' इति विश्वलोचने । जाशब्दस्योपलक्षणार्थ वाज्जरामरणयोग्रहणं, नष्टघातिकर्मचतुष्कत्वाजरामरणविकलत्वात्तस्य । जिनपति अष्टादशदोषान्कर्मोदयजनिताञ्जयन्तीति जिनाः प्रमत्तादिगुणस्थानवर्तिनः एकदेशजिनाः। तेषां पतिः। तम् । 'जिनस्त्वईति बुद्धेऽतिवृद्धजित्वरयोस्त्रिषु' इति विश्वलोचने । सदा सर्वकाले पूजयन्तं तत्पूजां कुर्वाणं । अत एव पूतं पवित्रं । 'पूतं पवित्रे शब्दे च त्रिषु स्याबहुलीकृते' इति विश्वलोचने । पावनमिति वा । एनं । स्कन्दाभिधानं देवं दृष्ट्वा विलोक्य यत् तेजःदेववृन्दे देवनिकाये । दिवि आकाशे भवन्तीति देवाः। ग्रहनक्षत्रप्रकीर्णकतारकाः ज्योतिष्कदेवाः । तेषां वृन्दे निकाये । अग्न्यं परायं । उत्कृष्टमित्यर्थः । 'परााग्रप्राग्रहरप्राग्यग्रीयमग्रियं' इत्यमरः । यत् हुतवहमुखे । हुतं वहतीति हुतवहः । हुतभुगमिरित्यर्थः । तस्य मुखं वक्त्रं । तत्र । अत्र मुखशब्दस्योपलक्षणार्थत्वात्सर्वेषामवयवानां ग्रहणं, तेजसोऽनौ सर्वत्र विद्यमानत्वात् । यत्तेजोऽनौ सर्वत्र शरीरे विद्यते तत्तेजः इत्यर्थः । यत् वासवीनां । वसूनि धनानि सन्त्यस्यामिति वासवी । 'ज्योत्स्नादिभ्योऽण' इत्यण 'इझटिड्ढाणञ्-' इति स्त्रियां की च ज्योत्स्नादीनां प्रयोगगम्यत्वात् । वासवी वसुन्धरेत्यर्थः । वासवीनामिति बहुवचननिर्देशः भूविभागबाहुल्यज्ञानपार्थः । भूभागस्थितानामित्यर्थः। चमूनां प्राणिनां । चमति अन्नोदकं सेवते इति चमूः । 'कृषिचनितनिधनिसर्जिखर्जिभ्य ऊः' इत्याणादिकः 'चमु अदने' इत्यस्माद्धातोरूः । रक्षाहेतोः रक्षायाः कारणेन । रक्षार्थमित्यर्थः । 'हेतौ सर्वाः प्रायः' इति हेतुशब्द प्रयोगात्ता हेत्वर्थे । जीविकार्जनार्थायाः प्राणिगणप्रवृत्तेः सूर्यातपदर्शने सम्भवात् ईर्यायां सूक्ष्मजन्तुसंरक्षणस्य तदातपे सत्यव सम्भवाच्च सूर्यतेजसः प्राणिगणरक्षार्थत्वमिहाभिप्रेतमित्यवसेयम् । नवशशिभृता । नवं प्रशस्तं शशिनं बिभर्तीति नवशशिभृत् । क्किप् । तया । नूयते इति नवः । प्रशस्तः इत्यर्थः । दिवा व्योम्ना सम्भृतं सङ्ग्रहीतं । तत् पूर्ववर्णित । अत्यादित्यं देवतेजसोऽप्यधिकतरं । आदित्यानमरानतिक्रान्तमत्यादित्यं । 'आदितेया दिविषदो लेखा अदितिनन्दनाः। आदित्या ऋभवोऽस्वप्ना अमां अमृतान्धसः' इत्यमरः। प्रात्यवपरिनिःप्रत्यादयों गतकान्तकृष्टग्लानक्रान्तस्थितादिषु वेभाप्केभिः' इति प्रादिरिबन्तेन सह षसः । तत् प्रसिद्ध तेजः सूर्यातपरूपं त्वं अपि भवानपि भवतात् भव । 'तुह्योताद्वा' इति लोटो मध्यमपुरुषकवचनत्यस्य हेतादाशिष्यर्थे । भवितेत्यस्य तृतीयपुरुषैकवचनलुट्त्यान्तत्वात्कर्तुश्च मध्यमपुरुषार्थत्वाद् भ्रान्तत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org