SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ १७२ [ पार्श्वाभ्युदये 1 र्भार्या । अपचितपदं । अपचित प्रार्चित पदे चरणे यस्य सः । तम् । स्वौकसि स्वगृहे । स्वस्याऽत्मनः ओको गृहं स्वौकः । तत्र स्वौकसि । 'ओकस्त्वाश्रयसद्मनोः ' . इति विश्वलोचने । प्राज्यभक्त्या महत्या भक्त्या प्राज्या महती चासौ भक्तिभजनं च प्राज्यभक्तिः । तया । ' प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ' इत्यमरः जैनीं जिनेन्द्रसम्बन्धिनीम् । जिनस्येयं जैनी । ताम् । अण् ङी च । पूजां सपर्यो विरिरचयिषु विरचयितुमिच्छु । ' तुमीच्छायां धोर्वोपू' इति सन्निच्छायां तुमश्चोप् । तत्र देवगिरौ नियतवसतिं निश्चितनिवासं । नियता निश्चिता वसतिर्निवासः यस्य सः । तम् । स्कन्दं तदभिधानं कञ्चिद्देवविशेषम् । स्कन्दति विघ्नानपहरतीति स्कन्दः विघ्नहरः कश्चिद्देवविशेषः । तम् । पुष्पमेघीकृतात्मा कुसुमवर्षुकमेर्घाकृतस्वकायः । पुष्पाणां मेघः पुष्पमेघः । अपुष्पमेघः पुष्पमेघः कृतः आत्मा शरीरं येन सः । च्विः । आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु' इति विश्वलोचने । देवयोनिसम्भूतत्वाद्वैक्रियिकविग्रहसम्पन्नत्वाद्विरचितपुष्पोपादानकारणजातकार्यभूतशरीरः इत्यर्थः । भवान् त्वं व्योमगङ्गाजलार्द्रैः आकाशगङ्गानदीजलार्द्रीकृतैः । उन्नततरहिमवत्कुलाचलोद्भूतत्वाद्गङ्गायाः व्योमगङ्गेति नामान्तरमित्यवसेयम् । व्योमगङ्गायाः आकाशगङ्गायाः जलेन आर्द्रैः आर्द्रतां नीतैरित्यर्थः । पुष्पासारैः पुष्पधारासम्पातैः ' धारासम्पात आसारः इत्यमरः । स्नपयतु अभिषिचतु | अभिषेचनं करोत्वित्यर्थः । " " You, with your body formed into a flower-cloud, should perform ablution, with showers of flowers moistened with the waters of the heavenly Ganges, of Skanda, whose feet are worshipped by Isa (the lord of the north eastern direction) and his beautiful beloved with a desire to make him their son, who is desirous of performing worship of Jina with great devotion in his house, and who has his residence permanently situated there (i. e. on the Devagiri mountain ). पूज्यं देवैर्जिन पतिमजं पूजयन्तं सदैनं दृष्ट्वा पूतं त्वमपि भवतादेववृन्दे दिवाऽग्न्यम् । रक्षाहेतोर्नवशशिभृता वासवीनां चमूना मत्यादित्यं हुतवहमुखे सम्भृतं तद्धि तेजः ॥ ३२ ॥ अन्वयः देवैः पूज्यं अजं जिनपतिं सदा पूजयन्तं पूतं एनं दृष्ट्वा (यत्) देववृन्दे अग्र्यं, (यत्) हुतवहमुखे ( विधते ), (यत्) वासवीनां चमूनां रक्षाहेतोः नवशशिभृता दिवा सम्भृतं, तत् अत्यादित्यं तेजः त्वं अपि भवतात् । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy