________________
द्वितीयः सर्गः ]
.१७१
मेरुत्यः । श्रमपरिजुषः श्रमयुक्तस्य । श्रान्तस्येत्यर्थः । श्रमं श्रान्ति परिजुषते इति श्रमपरिजुट् । तस्य । किप् ! ते तव प्रियसुहृदिव प्रियमित्रमिव प्रत्युद्यासुः प्रयतमानः। प्रयत्नं कुर्वाणः इत्यर्थः । प्रत्युद्यसतेरौणादिकः उण् । त्वक्लमच्छेददक्षः त्वच्छ्रमपरिहरणतत्परः । तव क्लमः श्रमः त्वक्लमः । तस्य च्छेदे परिहरणे दक्षः चतुरः अनलसः वा त्वक्लमच्छेददक्षः । 'दक्षः स्यादक्षिणभुजे प्रगल्भेऽनलसे त्रिषु' इति विश्वलोचने । आरूढसौगन्ध्ययोगः सञ्जातसौरभसम्पर्कः। आरूढः समुत्पन्नः सौगन्थ्येन सौरभ्येण योगः सम्पर्कः यस्य सः । 'योगः सन्नाहसन्धानसङ्गतिध्यानकर्मणि' इति विश्वलोचने । काननोदुम्बराणां । काननेषु वनेषु उदुम्बराणि उदुम्बरफलानि काननोदुम्बराणि । तेषां । उदुम्बरस्य जन्तुफलस्यावयवः फलं उदुम्बरम् । 'उप्फले' इति फलत्यस्योप् । 'उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ' इत्यमरः 'परिणमयिता परिपाचयिता । परिणमयति परिपाचयतीति परिणमयिता। 'घटादिकगेवनुजनीजृष्स्नस्क्नसंज्यमोऽपर्यपस्खत्कमचम्यमः प्रोऽम्ज्योस्तु दीर्वा' इति णौ परे प्रः । शीतः शैत्ययुक्तः वातः वायुः नीचैः मन्दं वास्यति वक्ष्यति ।
A cool breeze of wind, ripening the sylvan figs, rich in fragrance, exerting like a dear friend, prompt to dissipate weariness of you who would be fatigued and who would be desirous of approaching the Devagiri mountain on proceeding a little, would be blowing gently.
ईशोमाभ्यामपचितपदं तं पुपुत्रीयिषुभ्यां
पूजां जैनी विरिरचयिषु स्वौकास प्राज्यभक्त्या । . तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलाः ॥ ३१ ॥ अन्वयः-तं पुपुत्रीयिषुभ्यां ईशोमाभ्यां अपचितपदं, स्वौकसि प्राज्यभक्त्या जैनी पूजां विरिरचयिषु, तत्र नियतवसति स्कन्दं पुष्पमेधीकृतात्मा भवान् व्योमगङ्गाजलार्दैः पुष्पासारैः स्नपयतु ।
ईशेत्यादि । तं स्कन्दाख्यं देवविशेषं पुपुत्रीयिषुभ्यां आत्मनः पुत्रं कर्तुमिच्छुभ्यां 'क्यजझिमः' इत्यात्मनः इबन्तादिच्छायां क्यच् 'तुमीच्छायां धोर्वोप्' इति तुमीच्छायां सन् तुमश्चोप् च। ईशोमाभ्यां उत्तरपूर्वादिक्पतितदङ्गनाभ्यां । ईशः उत्तरपूर्वादिक्पतिः । उमा कान्तिः अस्याः अस्तीति उमा । सौन्दर्यसम्पन्ना दिक्पते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org