________________
१६८
[पार्धाभ्युदये तम् । ज्ञास्यसि अधिगमिष्यसि | भास्वत्काञ्चीदामश्रुतिमधुरकणितादुन्नतजघनाद्धेतोर्यथा कामिन्याः निधुवनसेवनोत्कर्षः विज्ञायते तथा स्वनत्पक्षिमालारूपभास्वत्काञ्चीदाममधुररसनादुन्नतात्पुलिनरूपजघनाद्धेतोस्तस्याः गम्भीरानामधेयनद्याः कामसेवनोत्कर्षः अस्याः अस्तीति त्वं ज्ञास्यसीति भावः । सखे मित्र मुक्तरोधोनितम्बं परित्यक्ततटकटिकं । रोधस्तटमेव नितम्बः कटीचक्रं रोधोनितम्बः । 'कटीचक्रे नितम्बः स्याच्छिखरिस्कन्धरोधसोः' इति विश्वलोचने । 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु'। इत्यमरः । मुक्तः परित्यक्तः रोधोनितम्बः येन तत् । प्राप्तवानीरशाख । वानीरस्य जलवेतसस्य शाखा समीपप्रदेशः पल्लवः वा वानीरशाखा । प्राप्ता आश्रिता वानीरशाखा येन तत् प्राप्तवानीरशाखं वानीरसमीपप्रदेशाश्रितं सदित्यर्थः । किश्चित् ईषत् करधृतं इव करेण धृतमिव । हस्तावलम्बितमिवेत्यर्थः नीलं नीलवर्ण सलिलवसनं जलरूपं वस्त्रं । सलिलमेव वसनं सलिलवसनम् । पक्षे सलिलमिव वसनं। दुकूलः इत्यर्थः। तत् । हृत्वाअपनीय बहुरसां विपुलानुरागां । बहुर्विपुलो रसोऽनुरागो यस्याः सा । ताम् । 'रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति विश्वलोचने । कामावस्था मदनोद्रेकजनितामवस्थां इति उक्तप्रकारेण दर्शयन्ती आविर्भावयन्ती उत्फुल्लप्रततलतिकागूढपर्यन्तदेशां। उत्फुल्लः सम्फुल्लः प्रततः प्रसृतः उत्फुल्लप्रततः। 'जिफला विशरणे' इत्यस्माद्धोः 'ति' इति तकारादौ त्ये परतोऽत उत्त्वं 'समुदः' इति फुल्लनिपातस्तस्य धोरुदः परत्वात् । ताश्च ताः लताः वल्लयः । ताभिः गूढः प्रच्छन्नः पर्यन्तदेशः यस्याः सा । ताम् । पक्षे उत्फुल्ले योनिदेशे प्रतता प्रसृता उत्फुल्लप्रतता। सा चासौ लतिका मुक्तामाला चोत्फुल्लप्रततलतिका । 'उत्फुलः करणे स्त्रीणामुत्ताने विकचेऽन्यवत्' इति विश्वलोचने । तया गूढः प्रच्छन्नः पर्यन्तदेशः योनेः प्रत्यासन्नः देशः यस्याः सा । ताम् । तां गम्भीराख्यां नदी निषध अवलम्ब्य । समाश्रित्येत्यर्थः । लम्बमानस्य जलादानाद्दीर्घाकृतस्वकायस्य पक्षे विषयसुखानुभवार्थ दीर्घाकृतस्वकायस्य ते तव प्रस्थानं तस्मात्स्थानान्निष्क्रमणं । प्रयाणमित्यर्थः । अपि कथं भावि केन प्रकारेण भविष्यति। अपीत्यत्र प्रभे । 'अपि सम्भावनाशङ्काप्रश्नगींसमुच्चये' इति विश्वलोचने। कामातुराणां कार्यान्तरे शीतकत्वमवश्यम्भावीति मत्वा भवतः कामातुरत्वसम्पत्तेः ततोऽग्रे शीघ्र प्रस्थानं न सम्भवेदिति भावः । कः ज्ञातास्वादः अनुभूतसम्भोगशृङ्गाररसः विवृतजघनां अनावृतजघनां विहातुं परित्यक्तुं समर्थः शक्तिसम्पन्नः । न कोपीत्यर्थः । कामावस्थां नाभिजघनादिना व्यञ्जयन्ती कामिनी दृष्ट्वा कामुकस्तां विहायान्यत्र गन्तुमसमर्थो भवति यथा तथा सलिलवसनमपहृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org