________________
द्वितीयः सर्गः]
neutralize immodestly her glances in the form of the beautiful springings up of the fish which are as white as the lilies.
ज्ञास्यस्युच्चैःपुलिनजघनादुच्चरत्पक्षिमाला
भास्वत्काञ्चीमधुरराणतात कामसेवाप्रकर्षम् । तस्याः किश्चित्करधृतमिव प्राप्तवानीरशाखं .
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ॥ २७॥ तामुत्फुल्लप्रततलतिकागूढपर्यन्तदेशां __ कामावस्थामिति बहुरसां दर्शयन्तीं निषध । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघना को विहातुं समर्थः॥ २८ ॥ अन्वयः- उच्चरत्पक्षिमालाभास्वत्काञ्चीमधुररणितात् उच्चैःपुलिनजघनात् तस्याः कामसेवाप्रकर्षे ज्ञास्यसि । सखे! मुक्तरोधोनितम्बं प्राप्तवानीरशाखं किञ्चित् करधृतं इव नीलं सलिलवसनं हृत्वा बहुरसां कामावस्थां इति दर्शयन्ती उत्फुल्लाततलतिकागूढपर्यन्तदेशा तां निषद्य लम्बमानस्य ते प्रस्थानं अपि कथं भावि ? कः ज्ञातास्वादः विवृतजघनां विहातुं समर्थः ?
ज्ञास्यसीत्यादि श्लोकद्वयम्। उच्चरत्पक्षिमालाभास्वत्काञ्चीमधुररणितात्। उदूर्ध्व चरतामुड्डीयमानानां उच्चरतां स्वनतां वा पक्षिणां पतत्रिणां माला पङ्क्तिः उच्चरत्पक्षिमाला । सैव भास्वत्काञ्ची तेजसा स्फुरन्ती रशना । तस्याः मधुरं श्रोत्रप्रिय रणितं काणः यत्र तत् । तस्मात् । हेतावत्र का । पक्षे उच्चरत्पक्षिणां मालेव माला उच्चरत्पक्षिमाला । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । तया युक्ता भास्वत्काञ्ची । तस्याः मधुरं रणितं यत्र तत् । तस्मात् । कणकिङ्किणीजालनिबद्धमालालङ्कृतभास्वत्काञ्चीदामश्रुतिप्रियकणितादित्यर्थः । उच्चैःपुलिनजघनात् । उन्नता. त्पुलिनरूपात्कटिभागात् पक्षे उन्नतपुलिनतुल्यकटिप्रदेशात् । उच्चैरुन्नतं पुलिनं सैकतमेव जघनं कटिः । तस्मात् । पक्षे पुलिनमिव पुलिनं । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । पुलिनमिव जघनं । पुलिनजघनं । उच्चैरन्नतं पुलिनजघनं । तस्मात् । 'जघनं वनिताश्रोणीपुरोमागे कटावपि ' इति विश्वलोचने । 'तोयोस्थितं तत्पुलिनं' इत्यमरः । 'तत्तटं तोयात् क्रमेणोत्थितं पुलिनं, पुलो महत्त्वमस्यास्तीति' इति क्षीरस्वामी। तस्याः गम्भीरायाः नद्याः कामसेवाप्रकर्ष मैथुनसेवनोद्रेकं । कामसेवायाः सम्भोगक्रीडायाः प्रकर्षःउद्रेकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org