SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १६६ [ पार्श्वाभ्युदये pure heart of the Gambhira river, your self, under the guise of a reflected image also, naturally charming, would gain entrance. तस्मादेवं प्रणयपरतां त्वय्यभिव्यञ्जयन्ती लीलाहासानि विदधती सा धुनी शीकरोत्थान् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यामोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ २६ ॥ अन्वयः - तस्मात् शीकरोत्थान् लीलाहासान् विदधती इव सा धुनी एवं त्वयि प्रणयपरतां व्यञ्जयन्ती ( भवेत् ) तस्मात् अस्याः कुमुदविशदानि चटुलशरोद्वर्तनप्रेक्षितानि धैर्यात् मोघीकर्तुं त्वं न अर्हसि । तस्मादित्यादि । तस्मात् ततः । स्वचेतसि प्रवेशप्रदानादित्यर्थः । शीकरोत्थान् निःसृताम्बुकणोत्पन्नान् । ' शीकरः सरले वाते निःसृताम्बुकणेषु च ' इति विश्वलोचने । लीलाहासान् । लीलायुक्ताः सविलासाः केलौ कृताः वा हासा : लीलाहासाः । तान् । विदधती इव कुर्वाणेव सा धुनी सा गम्भीराभिधाना नदी । एवं प्रोक्तप्रका - रेण त्वयि भवति प्रणयपरतां प्रेमपरत्वं व्यञ्जयन्ती आविर्भावयन्ती । भवेदिति शेषः । तस्मात् प्रेमपरत्वप्रकटीकरणात् अस्याः गम्भीराख्य सरितः कुमुदविशदानि । कुमुदानीव कमलानीव विशदानि धवलानि कुमुदविशदानि । कमलधवलानीत्यर्थः । 'विशदः पाण्डुरे व्यक्ति' इति विश्वलोचने । ' सामान्येनोपमानं ' इति सामान्यवाचिना विशदशब्देन सहोपमानभूतकुमुदशब्दस्य षसः कुमुदश फरोद्वर्तनप्रेक्षितयोर्वैशद्यस्य साधारणधर्मत्वात् । चटुलशफरोद्वर्तनप्रेक्षितानि । चटुलानि शीघ्रगतीनि शफराणां मत्स्यानामुद्वर्तनान्युल्लुण्ठितान्येव प्रेक्षितानि विलोकनानि । ' त्रिषु स्याच्चटुलं शीघ्रं - ' इति विश्वः । एतावतैव गम्भीरानद्यास्त्वय्यनुरागो व्यज्यते । धैर्यात् धाष्टर्थात् । औद्धत्यादिति भावः । मोघीकर्तुं विफलीकर्तुं । अमोघानि मोघानि विफलानि कर्तु मोघीकर्तुम् । चिचः । मोघस्तु निष्फले दीने ' इति विश्वलोचने । त्वं भवान् न अर्हसि न योग्यो भवति । धूर्तो मा भूत्वमिति भावः । एनां त्वयि रक्तां विहायान्यत्रारक्तायामारक्तो मा भूत्वमिति तात्पर्यम् । < That river, expressing her whole-hearted love for you, therefore, as if giving out sportive smiles originating from the sprays, would, thus, manifest her love for you. You do not, therefore, deserve to Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy