SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] १६५ गम्भीरेति त्वमपि सुभगां तां धुनी माऽवमंस्थाः गत्वा तस्या रसमनुभव त्वय्यंतिस्वच्छवृत्तेः । गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्माऽपि प्रकृतिसुभगो लस्यते ते प्रवेशम् ॥ २५ ॥ अन्ययः-- त्वं अपि तां सुभगां धुनी गम्भीरा इति मा अवमस्थाः । गत्वा त्वयि अतिस्वच्छवृत्तः तस्याः रसं अनुभव । गम्भीरायाः सरितः चेतसि इव प्रसन्ने पयसि ते प्रकृतिसुभगः छायात्मा अपि प्रवेशं लप्स्यते । गम्मीरेत्यादि । त्वं अपि भवानपि तां प्रसिद्धां सुभगां मनोहरां । शोभनं भगं सौन्दर्यमस्याः सुभगा। तां। 'भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु' इति विश्वलोचने । धुनी नदीं। 'तरङ्गिणी शैवलिनी तटिनी हृादिनी धुनी। स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽऽपगा' इत्यमरः । गम्भीरा इति अगाधेति । अगाधत्वादित्यर्थः । इतीति हेतावत्र । ' इति हेतो प्रकारे च प्रकाशाद्यनुकर्षयोः ' इति विश्वलोचने। मा अवमंस्थाः मावज्ञासीः । तस्याः अवज्ञा मा कुर्वित्यर्थः । 'लुङलङ्लुङ्यमाङाट्' इति माङ्योगसद्भावादडागमोऽत्र प्रतिषिद्धः । गत्वा तां गम्भीराख्यां नदी प्राप्य त्वयि भवद्विषये अतिस्वच्छवृत्तेः सुनिर्मलमतेः । अति प्रकर्षण स्वच्छा निर्मला वृत्तिः समुदाचारः मतिः वा यस्याः सा । तस्याः । तस्याः गम्भीरभिधानायाः सरितः रसं जलं । अत्र रसशब्देन गम्भीरायाः अनुरागोऽपि ध्यन्यते । अनुभव अनुभूतिविषयतां नयस्व । गम्भीरायाः सरितः गम्भीराभिधनिम्नगायाः चेतसि इव मनसि इव प्रसन्ने निर्मले पयसि पानीये ते तव प्रकृतिसुभगः स्वभावसुन्दरः । प्रकृत्या स्वभावेन सुभगः सुन्दरः प्रकृतिसुभगः । 'सुन्दरेऽधिकभाग्यांशे उदिते तटवासरे। तुरीयांशे श्रीमति च सुभगः' इति शब्दार्णवे । छायात्मा अपि प्रतिबिम्बरूपं शरीरं अपि । 'छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिविम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने' इति 'आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु' इति च विश्वलोचने । प्रवेशं लस्यते प्राप्स्यति । . Even you should not dishonour that beautiful river (only) because of her being very deep. Having approached (her), you should enjoy the water (love) of her whose behaviour with reference to you is extremely pure ( flawless ). In the pure waters which are as if the Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy