SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १६९ . स्वरोधोनितम्बप्रदर्शनेन कामावस्थां व्यञ्जयन्तीमाश्रित्य लम्बमानस्य ते प्रयाणं न सम्भवेदिति शम्बरासुराभिप्रायः । You would come to know the excess of her sexual enjoyment from the prominent buttocks in the form of sandy beaches possessing charming jinglings of a resplendent zone in the form of the rows of chirping birds. Dear friend! how would your departure be possible when you, on resorting to her, whose adjoining regions would be coverd over with flowery creepers spreading there, who would be manifesting her passion abounding in love by removing the blue garment in the form of water, slipped off the buttocks, in the form of her banks, attained, as though being held by her hand, to the blades of canes growing in her waters, would be stretching out yourself (or would be lying at full length ) : Who, become acquainted with sexual enjoyment, would be capable of giving up a woman having her hips laid bare ( or uncovered ) ? उत्तीर्यां कथमपि ततो गन्तुमुद्यच्छमानं त्वामुन्नेष्यत्यनुवनमसौ गन्धवाहः सुगन्धः । त्वन्निष्यन्दोच्छसि तव सुधागन्धसम्पर्करम्यः स्रोतोरन्ध्रध्वनितमधुरं दन्तिभिः पीयमानः ॥ २९ ॥ अन्वयः— अमूं कथमपि उत्तीर्य ततः गन्तुं उद्यच्छमानं त्वां त्वन्निष्यदोच्छुसितवसुधागन्धसम्पर्करम्यः दन्तिभिः स्रोतोरन्घ्रध्वनितमधुरं पीयमानः असौ सुगन्धः गन्धवाहः त्वां अनुवनं उन्नेष्यति । उत्तीर्येत्यादि । अमूं तां गम्भीराख्यां नदीं कथमपि महता कष्टेन उत्तीर्य उल्लङ्घ्य ततः तस्माद्गम्भीरानदीप्रदेशात् गन्तुं यातुं उद्यच्छमानं उद्यमं कुर्वाणं । प्रयतमानमित्यर्थः । त्वां भवन्तं त्वन्निष्यन्दोच्छु सितवसुधागन्धसम्पर्करम्यः । तव निष्यन्दः वृष्टिः त्वन्निष्यन्दः । तेन उच्छसिता उच्छूना । विजृम्भितेत्यर्थः । सा चासौ वसुधा भूमिश्च । ' पुंवद्यजातीयदेशीये ' इति पुंवद्भावः । तस्याः गन्धः आमोदः । — गन्धो गन्धकसम्बन्धलेशेष्वामोदगर्वयोः ' इति विश्वलोचने । तस्य सम्पर्केण सम्बन्धेन । संसर्गेणेत्यर्थः । ' सम्पर्कः स्यान्निधुवने संसर्गे स्पर्शनेऽपि च' इति विश्वलोचने । रम्यः मनोहरः । दन्तिभिः गजैः स्रोतोरन्प्रध्वनितमधुरं । स्रोतसः नासिकायाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy