SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १६३ भिप्रायं मनसिकृत्य 'भासोऽभङ्गादघनिरसनं' इति कव्युक्तिरित्यवसेयम् । तस्मिन् काले पूर्वश्लोकप्रदर्शिते सूर्यदर्शनकाले खण्डितानां इत्वारकापरिगृहीतापरिगृहीताद्यन्यतमागमनचिह्नाङ्किस्वप्रियतमदर्शनजनितयकषायितानां योषितां स्त्रीणां । ' प्रार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः । सा खण्डितेति कथिता धीरैरीयकषायिता ' इति साहित्यदर्पणे विश्वनाथः । नयनसलिलं नयनयोराविर्भूतमश्रुजलं प्रणयिभिः प्रियतमैः शान्ति शमनं नेयं नेतव्यम् । शान्तिसलिलशब्दयोरिवन्तत्वं नयतेर्द्विकर्मकत्वादवसेयम् । अतः खण्डितानयनाश्रुजलोपशमनावसरप्रदानहेतोः भानोः सूर्यस्य वर्त्म मार्ग आशु शीघ्रं त्यज मुञ्च । सहस्रकिरण किरणकलापमार्गावरोधकस्त्वं मा भूरित्यर्थः । The sun would not fall in the range of sight, when he would be obstructed by you. Dissipation of misery (of women) would not be possible owing to the disappearance of the sun-light caused by you, At that time (i. e. in the morning when the sun rises), the tears of women treacherously disappointed ( by their lovers ) are to be allevia - ted by their affectionate lovers - so, quit ( or go away from ) the path of the sun quickly. अन्यच्चान्यव्यसनविधुरेणाऽऽर्य मित्रेण भाव्यं तन्मा भानोः प्रियकमलिनीसंस्तवं त्वं निरुन्धाः । प्रालेयास्रं कमलवद्नात्सोऽपि तु नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ २४ ॥ अन्वयः - अन्यत् च आर्य ! मित्रेण अन्यव्यसनविधुरेण भाव्यं; तत् त्वं भानोः प्रियकमलिनीसंस्तवं मा निरुन्धाः । नलिन्याः कमलवदनान् प्रालेयाखं हर्तु प्रत्यावृत्तः सः अपि त्वयि कररुधि अनल्पाभ्यसूयः स्यात् । अन्यश्चेत्यादि । अन्यत् च् । भवन्निमित्तेन दिनमणिकिरणौघानां प्रत्याहतत्वात्खण्डितानां योषितां दुःखनिरसनं न भविष्यतीत्येकं दूषणमभिधाय तन्मार्गनिरोधे दूषणान्तरं दर्शवितुमन्यच्चेत्याह । आर्य सतां पूज्य मित्रेणं सुहृदा । 1 मित्रं सख्यौ खैौ पुमान्' इति विश्वलेोचने । अन्यव्यसनविधुरेण अन्यविपत्तिदुःखितेन । अन्यस्य व्यसनं विपत्तिः अन्यव्यसनं । ' व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । देवानिष्टफले पाके विपत्तौ विफलोद्यमे॥ सक्तिमात्रे सुचरिताद्भ्रंशे कोपजदूषणे । ' इति विश्वलोचने । तेन विधुरः विकलः । दुःखितः इत्यर्थः । ' विधुरं तु प्रविश्लेषे प्रत्यवायेऽपि तन्मतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy