________________
१६२
[ पार्धाभ्युदये
into frindship (with me), should cover the remaining portion of your travel when the sun would be seen again ( the next morning ).
रूद्धे भानौ नयनविषयं नोपयाति त्वयाऽसौ
भासो भङ्गादधनिरसनं मा स्म भूत्त्वन्त्रिीमतम् । तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्ति नेयं प्रणयिभिरतो वम भानोस्त्यजाशु ॥ २३ ॥ अन्वयः-- त्वया भानौ रुद्धे असौ नयनविषयं न उपयाति । त्वनिमित्तं भासः भङ्गात् अघनिरसनं मा स्म भूत् । तस्मिन् काले खण्डितानां योषितां नयनसलिलं प्रणयिभिः शान्ति नेयम् । अतः भानोः वम आशु त्यज ।
. रुद्धे इत्यादि । त्वया भवता भानौ मरीचिमालिनि रुद्ध स्वशरीरविस्तारेणाऽ भितः व्याप्ते सति असौ सूर्यः नयनविषयं नेत्रगोचरं । नयनयोः नेत्रयोः विषयः गोचरः नयनविषयः। तम् । न उपयाति न प्राप्नोति । घनाघनशरीरविस्तारण सर्वतः सूर्यबिम्बे पिहिते सति व्यवधाननिह्नतत्वात् नयनगोचरतां न प्राप्नोतीति भावः। त्वन्निमितं भवन्निमित्तेन भासः प्रकाशस्य । सूर्यातपस्वेत्यर्थः । भङ्गात् विनाशात् । भवच्छरीरविस्तारव्याप्तरविबिम्बत्वात् तदातपविनाशादित्यर्थः । अघनिरसनं दुःखविनाशः । 'पापेऽत्तौ व्यसने चाऽघं ' इति विश्वलोचने । 'अंहो दुःखव्यसनेष्वधं ' इत्य. मरः । 'स्यान्निरासे निरसनं वधे निष्ठीवने तथा' इति विश्वलोचने। 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' इत्यमरः। मा स्म भूत् मा स्म भवत् । न भविष्यतीति भावः। 'सस्मे लङ् च ' इति सस्मे मादि लुङ्। 'लुङ्लङ्लङ्यमाङाट्' इति माडो योगादत्राडागमप्रतिषेधो लुङि परतोऽपि। रविबिम्बस्य भवता निह्नतत्वात् सूर्यातपाभावात् रात्रिसम्भ्रमात् स्वप्रियतमविधीयमानप्रार्थनाचाट्वसम्भवात् खण्डितानां दुःखोपशमो न सम्भवेदिति भावः । 'भासोऽभङ्गादघनिरसनं मा स्म भूस्तन्निमित्तं' इति परिवर्तिते पाठे आश्रिते ‘भासः अभङ्गात् अघनिरसनं [भवति, त्वं] तन्निमित्तं मा स्म भूः' इत्यन्वयः। भासः सूर्यातपस्य अभात् अविनाशात् । प्रादुर्भूतत्वादिति भावः। भङ्गादिति पाठे तु प्रादुर्भावादित्यर्थः, भङ्गशब्दस्य विरचनार्थत्वात्। अघनिरसनं दुःखपरिहारः। भवतीति शेषः। उदयशिखरिशिखरारूढसहस्राचिर्वकीर्णमरीचिमालालकृते भूमण्डलेऽ न्यासम्भोगचिह्नितस्वपतिदर्शनोद्भतदुःखदुर्मनायमानभामिनीदुःखप्रशमनाभिलाषः परदारगामी सन्नपि तत्प्रियतमश्चाटुकारक्षमायाचनपादपतनायुपायैः तदुःखप्रशमनं करोतीत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org