________________
द्वितीयः सर्गः]
यद्यपीत्यादि । यद्यपि अस्यां एतस्यामुज्जयिन्यभिधानायां नगर्थी क्षणपरिचयः । क्षणं क्षणमात्रकालं यावत् परिचयः संसर्गः क्षणपरिचयः । अल्पकालपरिमाणः सम्बन्ध इत्यर्थः । स्वर्गवासातिशायी। स्वर्गे नाके देवनिवासे वासः स्वर्गवासः। तं अतिशेते इति स्वर्गवासातिशायी। 'शीलेऽजातौ णिन्' इति शीले णिन् । तथापि तत्र तस्यां नगर्या क्षणपरिचये वा । आसक्तिलाम्पट्यम् । योगात् । योग संबन्धं सङ्गति मित्रत्वं वा प्राप्य । 'प्यले कर्माधारे' इति प्यखे का । 'योगः सन्नाहसन्धानसङ्गतिध्यानकमणि । विष्कम्भादिषु सूत्रे च द्रव्ये विश्वस्तघातिनि । चरे चापूर्वलाभेऽपि भेषजोपाययुक्तिषु' इति विश्वलोचने । शत्रावपि मित्रभावमाश्रित्येत्यर्थः । वैरं च शात्रवं च । शिथिलीकृत्य । अशिथिलं शिथिलं श्लथं कृत्वा शिथिलीकृत्य । 'विडाजूर्याद्यनुकरणं' इति तिसंज्ञत्त्वात् 'तिकाङ्दुः' इति षसः, तिसत्वाच्च 'प्यस्तिवाक्से क्त्वः' इति क्त्वात्यस्य प्यः । स्वर्गवासातिशायिन्यपि तत्र क्षणपरिचयं आसक्ति मयि वैरबन्धं परित्यज्य मित्रभावं च प्राप्यान्युपेतसुहृदयंकृत्वो भवानलकागमनविषये विलम्बं मा कुर्विति भावः । अपि तु पुनरपि भूयोऽपि सूर्य मरीचिमालिनि दृष्टे नयनविषयतां • प्राप्ते सति भवान् त्वं अध्वशिष्टं । अध्वनः आक्रान्तमार्ग विहाय शिष्टः शेषः अध्वशिष्टः । तम् । आक्रान्तोर्वरितं मार्गमित्यर्थः । वाहयेत् गच्छेत् । सुहृदां मित्राणां । 'अथ मित्रं सखा सुहृत्' इत्यमरः । अभ्युपेतार्थकृत्याः जरीकृतमित्रप्रयोजननिष्पादनाः। अर्थस्य प्रयोजनस्य कृत्या क्रिया अर्थकृत्या। 'अर्थः प्रयोजने चित्ते हेत्वभिप्रायवस्तुषु' इति विश्वलोचने । 'कृत्या क्रियादेवतयोस्त्रिषु भेये घनादिषु' इत्यपि तत्रैव । इष्टप्रयोजननिष्पादनमित्यर्थः । ‘क्रियायां करणे कृत्या, यथा-कां कृत्यामकार्षीः' इति क्षीरस्वामी । तेन कृत्येत्यस्य करणं विधानं सम्पादनमित्यर्थः । 'कुः शश्व' इति क्यप् । सापेक्षः सोऽयं गमकत्वात्तस्यार्थस्य 'सापेक्षत्वेऽपि गमकत्वात्समासः' इत्यस्य शास्त्र. विहितत्वात् । न खलु नैव । 'खलु स्याद्वाक्यभूषायां खलु वीप्सानिषेधयोः । निश्चिते सान्त्वने मौने जिज्ञासादौ खलु स्मृतम् ' इति विश्वलोचने । मन्दायन्ते मन्दाः अलसाः भवन्ति । 'मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ' इत्यमरः । अमन्दाः मन्दाः आलस्याः भवन्तीति मन्दायन्ते । 'भृशादेश्चव्यो स्तः' इति क्यङ् 'डाउलोहितादिभ्यः क्यम्' इति क्यम् वा व्यर्थे मन्दशब्दस्योभयत्र पठनात् ।
Though the familiarity, lasting for a moment, with this ( city ), surpasses the ( life-long ) stay in the heavens, you,, giving up your fondness for the city and dispelling enmity (with me) by entering
पार्था भ्युदये...११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org